पृष्ठम्:काठकोपनिषत्.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१।२॥१८ बालबोधिनी १३६ मित्यादि । [ पृ. ३९ ] एवमपृथग्व्याख्याने व्याससंमतिमाह -इदं चे- त्यादिना । विवरणरूपत्वादिति । व्याख्यातृव्याख्येयभावरूपसंबन्धेनै- क्यमुभयमंत्रयोरित्यर्थः । अतः-जीवगतवध्यघातुकभावस्वीकारात् । वादनि- षेधाविति । वध्यत्वकथनं तन्निषेधश्च । विपश्चित्वार्ह इति । ज्ञानप्राप्त्य- नन्तरं ज्ञानित्वस्य लाभादिदानीं तद्योग्यतावान् । उत्पादकशून्य इति । अस्य कोऽप्युत्पादको नास्ति । [ पृ. ४० ] शरीरान्तर्वर्तिन इत्यादि । शरीररांतर्वर्ती शरीरविनाशमन्ववश्यं विनश्येदित्यर्थः । हननादिप्रसक्त्ती- त्यादि । हननादिप्रसक्तिः-हननादिप्राप्तिः । तादृशप्रसक्तिपूर्वको निषेधः । अभावज्ञानं प्रति प्रतियोगिज्ञानस्य कारणत्वात् निषेधं प्रति निषेध्यस्यावश्य- कतास्ति । अत उक्तं -हननादिमसाक्तिपूर्वकनिषेधाविति । वियत्पाद इति । बृहदारण्यकोपनिषदि । उत्पत्तिश्रुतिसर्वविज्ञानप्रतिज्ञाश्रुत्योर्विरोधमा- शंक्य समाधत्ते-नचेत्यादिना । उत्पातिश्रुतेरिति । स्वरूपस्य नित्यत्वेऽप्य- वस्थान्तरापत्तिरूपोत्पत्तिर्भवतीत्येवंरूपेणोत्पत्तिश्रुतिः संगच्छते । ज्ञानसंकेोच- विकाशेत्यादिरीत्या जीवस्योत्पात्तिः प्रदइर्यते।तदग्रे विव्रियते ग्रन्थकृता स्वयमेव- इयांस्तु विशेष इत्यादिना । तेन न तयोर्विरोधः । अधुनोत्पत्तिनिषेधकश्रु- तेर्न जायते म्रियते वेत्याद्याया अविरोधं दर्शयति-उत्पत्तिनिषेधश्रते- क्ष्चोति । ’ न जायते ’ इत्यादिना योत्पत्तिर्निषिध्यते तस्या अयमर्थो यदव- स्थान्तरप्राप्तिर्नामोत्पत्तिर्जीवस्य संभवति । स्वरूपान्यथाभावलक्षणोत्पत्तिस्तु न संभवतीत्यर्थः । विकारोऽस्त्येवेति । तादृशविकारे स्वीकृतेऽपि न नित्यत्व- हानिरित्यर्थः । सा–स्वरूपान्यथाभावलक्षणा । एवं जडानां स्वरूपा- न्यथाभावरूपोत्पत्तिरस्ति । जीवानां तु न स्वरूपान्यथाभावरूपो- त्पत्तिः किन्तु स्वभावान्यथाभावरूपोत्पत्तिः । ईश्वरस्य तु निया- मकत्वाद्यवस्थासत्वेऽपि पूर्वोक्तोभयविकाराभावः । [ पृ. ४१ ] पंचरा त्रस्य श्रुत्या सह विरोधं शकते---नन्विति । क्यन्तो घुरिति । ’ दाधा न्बदाप् ” पा. सू. १ । १ । २० इति पाणिनिसूत्रेण दारूपा धारूपाक्ष्च धा- तवो घुसंज्ञाः स्युरित्यर्थकेन दाधातोर्धसंज्ञा क्रियते । तसादाङ्पूर्वकाद्दाधातोः ’ उपसर्गे घोः किः' पा. सू. ३ । ३ । ९२ इति केिप्रत्यये कृते तदन्तस्य पुंल्लिंगत्वमावश्यकं ततश्च कथं विज्ञानं च तदादि चेत्युक्तमिति शंकावा- क्यार्थः । समाधत्ते-नायं घुरिति । नायं दाधातोराङ्पूर्वस्य प्रयोगः किन्तु ण्वि- प्रत्ययान्तस्याद्धातोरितिसमाधानार्थः अवश्यमतीत्यादीत्यर्थस्तदाह-निखि