पृष्ठम्:काठकोपनिषत्.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३५ काठकोपनिषद्भाष्यद्वये १।२।१६ स तद्रूपो भवतीत्यर्थः । परं चेदिति । यदा परं ब्रह्मालम्बनत्वेन स्थितं तदा तज्ज्ञातव्यमेव केवलं ज्ञानविषयमेव तत् । तस्य प्राप्तेः कर्तुमशक्य- त्वात् । अपरब्रह्मणः प्राप्तिः संभवतीत्यत आह-अपरं चेत्प्राप्तव्यमिति १६ [ प्रकाशिका ] स्तौतीति-फलबोधनद्वारेति शेषः । ब्रह्मप्राप्तिसाधन- त्वादिति । आयुर्वै घृतमितिवद्ब्रब्रह्मप्राप्तिसाधन ॐकारे ब्रह्मणो लक्षणे- त्यर्थः । जप्येषु—जपनीयेषु गायत्र्यादिमन्त्रेषु । यत्कामयत इत्यादि । ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहमिति भगवद्रीतास्थन्यायात् १६ १ | २ | १७ [ शांकरभाष्यम् ] ब्रह्मप्राप्त्यालंबनानां—गायत्र्यादीनाम् । परशब्देना- परस्याप्युपलक्षणमित्याह-परमपरं चेति । ब्रह्मलोक इति । ब्रझैव लोको ब्रह्मलोक इति विग्रहो नतु ब्रह्मणो लोकः । द्वैतापत्ते: । ब्रह्मभूत इति । नतु ब्रह्मीभूत इत्यभूततद्भावाच्च्विघटितप्रयोगः साधुः । तथा सति पुत्रकृित इत्या दिवन्न ब्रह्म, अब्रह्म, अब्रह्म ब्रह्मोव संपद्यमान इत्यादिनञ्घटितो विग्रहः कर्तव्यो भवेत्तच्चाद्वैतमते न घटते । एतन्मते सर्वदैव जीवस्य ब्रह्मरूपत्वात् कदाचिदप्यब्रह्मरूपत्वेनास्थिते ॥ १७ ॥ [ प्रकाशिका ] यानादिसर्वोत्कृष्टमिति । ध्यानादिभ्यः सर्वेभ्य उत्कृष्टम् ॥ १७ ॥ १ । २ । १८ [ शांकरभाप्यम् ] मन्दमध्यमप्रतिपत्तृनिति । मन्दमध्यमश्रेणीस्थोपा- सकान् । तादृशाधिकारिण इत्यर्थः । अथ-साधनोपदेशानन्तरम् । सा- क्षात्-उपाध्यनन्तर्भावेन । निर्दिधारयिषा-निर्धारयितुं निश्चापितुमिच्छा। [ पृ. ३९ ] अनेकविक्रया इति । यास्कोक्ता अस्ति, जायते, विपरिण- मते, वर्धते, अपक्षीयते, विनश्यतीति षड् भावविकाराः । मेधावीति । धी- र्धारणावती मेधेति कोशाद्धारणाशक्तिमान् । मेधावीत्यनेन गुणगुणिभाव- स्यादित्यत आह-आविपरिलुप्तेति । व्यतिरेकमुखेन शाश्वतत्वं व्युत्पाद- यति-यो हीति । ननु शरीरविनाशे तत्संक्ष्लिष्ट आत्मापि विनश्येदत आह-तत्स्थोऽपीति । यथा शस्त्रादिभिहतोऽपि महाकाशो नि:संगस्वभाव- त्वान्न हन्यते तद्वच्छरीरे शस्त्रादिभिर्हतेऽपि तत्स्थ आत्मा संक्ष्लिष्टत्वा- भावात् न विनश्यतीत्यर्थः ॥ १८ ॥ ['प्रकाशिका ] मन्त्रद्वयमपृथग्व्याख्यायते तद्वीजं प्रदर्शयितुमाह--प्रथम