११५ काठकोपनिषद्भाष्यद्वये १|१|१९ तेन प्रसिद्धेरभावो वक्त्तुं न शक्यते न तथा स्वर्गशब्दे प्रत्युत स्वर्गशब्दस्य निरतिशयसुखे नियमेनाप्रवृत्तिरेवेत्याशंकते--नन्विति । तद्वत्यावृत्यैवेति। सूर्यध्रुवान्तर्वर्तिलोकगतसुखविशेषभित्रं मोक्षरूपार्थ परिहायैवेत्यर्थः । एवं व्यावृत्तशक्त्तेरुपगमं विरोधत्रयेणोपोद्वलयति--अत एवेत्यादिना । अत एव भिन्नार्थे व्यावृत्य शत्तेरभ्युपगमादेव । प्रोद्भात्रधिकरण इतेि । इदं मीमां- साग्रन्थषु तृतीयेऽध्याये पञ्चमपादेऽष्टममाधिकरणम् ’ उद्रातृणां सह सुब्र- ह्मण्येन भक्षाधिकरणम् ’ इति नाम्रा प्रसिद्धम् । एतदेघं व्याख्यायते जैमिनीयन्यायमालायां माधवाचार्यैः । ज्योतिष्टोमे श्रूयते--प्रैतु होतुश्चमसः प्रब्रह्मणः, प्रोद्भातृणां, प्रयजमानस्य प्रयन्तु सदस्यानाम् ” ( अस्य विषय- वाक्यस्यैवमर्थः-होतुश्चमसः सोमभक्षणपात्रं तं प्रति गच्छतु । एवमेवान्यत्र) इतिवाक्ये प्रोद्भातणामित्यत्रैकस्यैव भक्ष । उद्रीथशब्दाभिधेयायाः साम- भक्त्तेरुद्रातर्युद्रातृप्रातिपदिकस्य रूढत्वादित्येकः पूर्वपक्ष । उद्भातृणामि- त्यस्य बहुत्वस्यैकस्मिन्नसंभवादुद्रात्रोपलक्षिताः षोडशर्त्विजः सर्वेऽपि भक्ष- येयुरिति द्वितीयः। उद्भीथप्रस्तावप्रतिहारान् सामभागानुद्धातृप्रस्तोतृप्रतिहर्तार प्रयोगकाले गायन्ति । उद्वत्कर्षेण गायन्तीति योगेनोद्रातारस्रयो भक्षयेयि- रिति तृतीयः पक्षः । रूढिर्योगमपहरतीति न्यायादेक एवोद्भाता । तेन च बहुवचनोपपत्तये प्रत्यासन्ना उपलक्ष्यन्ते । प्रत्यासत्तिश्च प्रस्तोतप्रतिहर्त्रो- रिव सुब्रह्मण्यम्याप्यस्ति । सामवेदाध्यायित्वेन सुब्रह्मण्याव्हानरूपे तदीय- कर्मण्यप्यौद्रात्रसमाख्यायाः सत्वात् । तस्मात्–’सुब्रह्मण्येन सहिताश्चत्वारः सामगा भक्षयेयुः' इत्यमन्त्यः पक्षो भाष्यकारस्याभिमतः । वार्तिककारस्तु- ’सदसो भक्षणस्थानत्वात्सुब्रह्मण्यस्य सदस्यप्रवेशात्तेन विराहिता अव- शिष्टाः सामगा भक्षयन्ति इति तृतीयं पक्षमङ्गीचकार ॥ इति ॥ एकत्वे- नेति । तेनैकवचनमपेक्ष्यत इत्यर्थः । बहूवचनार्थबहूत्वासंभवादिति । बहुवचनान्यथानुपपत्त्या पोडशस्वात्विक्षु लक्षणा कृता । स्तोत्रसंबन्धिना- मिति । गीतिविशिष्टं गुणवद्देवतासंबन्धिगुणानां कथनं स्तोत्रम् । त्रया- णामिति । अयं वार्तिककृत्पक्षः । त्रयाणां—उद्रातृप्रस्तोत्ताप्रतिहर्तृणाम् । अस्मिन्पक्षे सुब्रह्मण्यम्य व्यावृत्तिः । चतुर्णामिति । अयं भाप्यकृत्पक्षः । चतुर्णाम् उद्रातृप्रतिहर्तासुब्रह्मण्यानाम् । अस्मिन्पक्षे षोडशानामृ- त्विजां व्यावृत्तिः । [ पृ. १६ ] द्वितीयं विरोधमाह--तथेति । अहीना- धिकरण इति । इदं जैमिनीये तृतीयाध्याये तृतीयपादे त्रयोदशमधिकरणं
पृष्ठम्:काठकोपनिषत्.djvu/१३७
दिखावट