पृष्ठम्:काठकोपनिषत्.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१|१|१९ बालबोधिनी ११६ द्वादशोपसत्ताया अहीनाङ्गताधिकरणम् ’ इति नाम्ना प्रसिद्धम् । एतदेवं विव्रियते माधवाचायैर्जैमिनीयन्यायमालाविस्तरे—ज्योतिष्टोमप्रकरणे, क्षूयते ’तिस्र एव सान्हस्योपसदो द्वादशाहीनस्य इति । एकेनान्हनिप्पा- द्यत्वात्सान्हो ज्योतिष्टोमः। दीक्षादिवसादूर्ध्वं सोमाभिषवदिवसात्पूर्वं कर्तव्या होमा उपसद तासां द्वादशत्वं प्रकरणबलाज्ज्योतिष्टोमे निविशते अहीनशब्दश्च तस्मिन्नेव कल्पते । ज्योतिष्टोमस्य निखिलसोमयागप्रकृ- तित्वेन सर्वेषामङ्गानां तत्रोपदेशे सति तदुपदेशविकलविकृतीनामेिव हीनत्वा- भावात् । अतो द्वादशत्वत्रित्वयोर्विकल्प इति प्राप्ते बूमः । आवृत्तसोमयाग- रूपो द्विरात्रत्रिरात्रादिरहर्गणः । तस्मिन्नहीनशब्दो रूढः । यौगिकत्वे तु न हीन इति विगृह्य समासे कृते सत्ययज्ञादिशब्दवदाघुदात्तः स्यात् । मध्यो- दात्तस्त्वाम्नायते । रूढिश्च विग्रहनिरपेक्षत्वाच्छीघ्रबद्विहेतुः । अतो ज्यो- तिष्टोमवाचिनः सान्हशब्दाद्भिन्नेयमहीनसंज्ञा ज्योतिष्टोमाद्भिन्नमहर्गणमभि- धत्ते । तस्मिन्नहर्गणे षष्ठीश्रत्या तदुक्तं द्वादशत्वं निवेश्यते तत्सिद्धये प्रकरणादिदमपनेतव्यम् ॥ इति । व्याकरणस्मृत्येति । कात्यायनवार्तिकेन । अस्य वार्तिकस्यायमर्थः-ऋतौ वाच्ये समूह इत्यर्थेऽहन्शब्दात्खप्रत्ययो भवति । ततः खप्रत्ययस्य स्थाने : आयनेयीनींयियः फढखछघां प्रत्ययादी- नाम् ' पा. सू. ७ | १ | २ इत्यनेनेनादेशः । ततश्चाहीनशब्दस्याहर्ग- णसाध्यसुत्याकः क्रतुरित्यर्थः । सत्र इति । सत्रं यजमानर्त्विग्भिः संभूय बहुभिरहोभिरनुष्ठीयमानं कर्म सर्वे होतारः सर्वे यजमाना इतेि सत्रे यज्ञान्तराद्विशेषः । योगस्येति । न हीनोऽहीन इति व्युत्पत्तेरित्यर्थः । रूढिपराहत्वेनेति। रूढिर्योगमपहरतीति न्यायादित्यर्थः । द्वादशोपसत्ताया इति । उपसदो नाम दीक्षादिवसादूर्घ्व सोमाभिषवदिवसात्पूर्व कर्तव्या होमाः । अहर्गणविशेपोत्कर्ष इति । अहर्गणविशेषे क्रतौ ज्योतिष्टोमप्रकर- णादुत्कर्ष इत्यर्थः । तृतीयं विरोधमाह-तथेति । व्याकरणस्मृत्येति पाय्येत्यादिपाणिनिसूत्रम् । अस्यार्थः-माने वाच्ये पाय्यमिति रूपं निपा- त्यते । तथा हविषि वाच्ये सान्नाय्यं, निवासे वाच्ये निकाय्य: । सामिधेन्यां वाच्यायां धाय्येति च रूपं निपात्यते । सामिधेनीमात्रवाचितयेति समिध्यते प्रदीप्यतेऽग्रिनयेति सामिधेनी ऋक् धायाशब्दस्येति । ऋक्सामिधेनी धाय्याच या स्यादग्सिमिन्धने' इत्यमरः । धीयमानत्व रूपयोगार्थवशेनेति । धीयतेऽनया धाय्येति व्युत्पत्तेरित्यर्थ । स्तुति-