पृष्ठम्:काठकोपनिषत्.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१|१|१९ बालबोधिनी ११४ र्थस्तत्र लोकप्रसिद्ध एवार्थे ग्राह्यस्तथाच लोके स्वर्गे नाम निरतिशयप्रीति* रिति तु न सिद्धमतस्तस्य तथार्थस्वीकारे लोकानवगतार्थकरणं दोषः । किंच वेदे भिन्नोऽर्थो र्लोके भिन्नोऽर्थस्तेन च शक्तयन्तरकल्पनामित्यपि दोषः स्यात्तदाह-निरतिशयत्वांशस्येत्यादिना । अत्रार्थे मीमांसकसंमतिमाह--- यदेति । मीमांसकैरिति । शबरादिभिर्भाष्य एतस्यार्थस्य स्पष्टीकृतत्वात् । तच्च भाष्यं पूर्वमेव निर्दिष्टम् । पार्थशब्स्येति । यद्यपि ’ पार्थ एव धनु- र्धरः' इत्यादिवाक्येषु पार्थशब्दस्यार्जुनरूप एवार्थ: प्राचुर्येण गृहीतो न धर्मभीमरूपस्तथापि पृथापुत्रत्वरूपप्रवृत्तिनिमित्तैक्यात्रिष्वपि धर्मभीमार्जुनेष तस्य मुख्योऽर्थो न विहन्यते तद्वदत्रापि यद्यपि सूर्यध्रुवान्तरवर्तिलोकगतसुख- विशेषे प्रचुरप्रयोगः । अन्यत्र प्रचरप्रयोगो नास्ति तथापि सूखवाचित्वरू पार्थस्याविनाशान्मोक्षार्थकोऽपि स्वर्गशव्दो न विरुध्यत इत्यर्थः । अत्र प्र- काशकायां तदितरपृथापुत्रेष्विति बहुवचनमुक्तं तन्न संगच्छते । अर्जुनभिन्न- योर्द्व्रेयोरवे धर्मभीमयोः पुत्रयोः सत्त्वात् । नकुलसहदेवयोर्माद्रसुतत्वाच्च । ननु प्रचरप्रयोगाभावः शक्त्यभावस्य साधकस्तेन न स्वर्गशव्दो मोक्षवाचीत्या- शङ्कां निरस्यति–बर्हिराज्यादिशब्दानामिति । बर्हिरादिशब्दानां जाति- वाचिताधिकरणं नाम प्रथमाध्याये चतुर्थपादेऽष्टममधिकरणम् । तच्चेत्थंं वित्रियते जैमिनीयन्यायमालायाम्–दर्शपूर्णमासयोः श्रूयत ’ बर्हिर्लनाति’ ’ आज्यं विलापयति ’ ’ पुरोडाशं पर्यग्किरोति ’ इति । अत्र बर्हिरादिशा ब्दानां शास्त्रे सर्वत्र संस्कृतेषु तृणादिषु प्रयोगात् पील्वादिशब्देषु शास्त्रीयरूढेि प्राबल्यस्योक्तत्वात् यूपाहवनीयादिशब्दवत्संस्कारवाचिनो बर्हिरादिशब्दा इति चेन्मैवम् । अन्वयव्यतिरेकाभ्यां जातिवाचित्वात् । यत्र यत्र बर्हिरा- दिशब्दप्रयोगस्तत्र तत्र जातिरित्यस्या व्यासेर्लोकेि वेदे च नाम्ति व्यभिचारः संस्कारप्राप्तेर्लौकिके प्रयोगे व्यभिचारो दृश्यते । कचिद्देशविशेषे लौकिकव्य- वहारो जातिमात्रमुपजीव्य विना संस्कारं ते शव्दाः प्रयुज्यन्ते । बर्हिरादाय गावोगता इति । क्रय्यमाज्यमिति । पुरोडाशेन मे माता प्रहेलकं ददाति इति च तस्माज्जातिवाचिनः । प्रयोजनं तु बहिंपा यूपावटमवस्तृणातेि इत्यत्र विना संस्कारं स्तरणसिद्धिः ॥इति॥प्रहेलकं नाम क्रीडनकम् । यूपावटो नाम यूपबिलम् । एकदेशेऽपीति । आर्यप्रयोगाभावेऽप्येकदेशेऽपि जातिनिमित्ता दृष्टाः शब्दाः सर्वत्र जातिनिमित्ता भवितुमर्हन्तीत्यर्थः । सिद्धमाह--ततश्रेति। यद्यपि बर्हिराज्यादिशब्देष्वार्यप्रसिद्धिर्नास्ति तथाप्यनार्यप्रसिद्धिरस्ति