पृष्ठम्:काठकोपनिषत्.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१।१।१९ बालबोधिनी ११० लौकिके प्रयोगे द्रव्यवचनः स्वर्गशब्दो लक्ष्यते--कौशिकानि सूक्ष्माणि वा- सांसि स्वर्गः । चन्दनानि स्वर्गः । द्व्यष्टवर्षाः स्त्रियः स्वर्ग इति । यद्य- त्प्रीतिमद् द्रव्यं तत्तत्स्वर्गशब्देनोच्यते । तेन सामानाधिकरण्यात् ’ प्रीति- मत् द्रव्यं स्वर्गः ’ इति मन्यामहे । उपमानाच्छब्दप्रवृत्तिरिति चेन्न हि कस्मिश्चिदनुपमिते लोके प्रसिद्धो यस्यैतदुपमानं स्यात्तस्मान्नोपमानम् । अतो द्रव्यं स्वर्ग इति । नेत्याह । प्रीतिः स्वर्ग इति न द्रव्यम् । व्यभि- चारात् । तदेव हि द्रव्यं कस्यांचिद्वस्थायां न स्वर्गशब्दोऽभिदधाति । प्रीतिं तु कस्यांचिदवस्थायां न, नाभिदधाति । तस्मादन्व- यव्यतिरेकाभ्यामेतदवगम्यते-प्रीतौ स्वर्गशब्दो वर्तत इति । नैतदस्ति- प्रीतेरभिधायकः स्वर्गशब्द इति । कुतः । विशेषणत्वात् । यद्विशेषणं न तच्छब्देनोच्यते । तद्यथा-दण्डीति दण्डनिमित्तः पुरुषवचन : । दण्डोऽस्य निमित्तं नाभिधेयः । एवमेव प्रीतिवचन । प्रीतिसाधनवचनस्त्वेष स्वर्ग- शब्द इति । ननु स्वर्गशब्दो लोके प्रसिद्धो विशिष्ट देशे–’ यस्मिन्नोष्णं न शीतं न क्षुन्न तृष्णा नारतिर्न ग्लानिः पुण्यकृत एव प्रेत्य तत्र गच्छन्ति नान्ये । ’ अत्रोच्यते--यदि तत्र केचिदमृत्वा गच्छन्ति तत आगच्छन्त्य- जानत्वा तर्हि स प्रत्यक्षो देश एवंजातीयकः । न त्वनुमानाद्रम्यते । ननु चान्ये सिद्धाः केचिद् दृष्टवन्तः । ते चाख्यातवन्त इति चेत् । न तत्र प्रमाणमस्ति–सिद्धा एवंजातीयकाः सन्ति ते च दृष्ट्वाचक्षीरन्निति । तस्मादेवंजातीयको देश एव नास्ति । ननु च लोकादाख्यानेभ्यो वेदाच्चा- वगम्यते देश एवंजातीयकः स्वर्ग इति । तन्न । पुरुषाणामेवंविधेन देशेनासं. बन्धादप्रमाणं वचः । आख्यानमपि पुरुषप्रणीतत्वादनादरणीयम् । वैदिक- मपि स्वर्गाख्यानं विधिपरं नास्त्येव । भवति तु विध्यन्तरेणैकवाक्यभूतं स्तुतिपरम् । यद्यपि केवलसुखश्रवणार्थापत्या तादृशो देशः स्यात्तथाप्यस्म- त्पक्षस्याविरोधः, प्रीतिसाधने स्वर्गशब्द इति । तेन, देशेन व्यवहाराभावा- त्कुतस्तस्याभिधायकः स्वर्गशब्दो भविष्यतीति । यदा प्रीतिमद् द्रव्यं स्वर्ग- स्तदा ब्रूमः ’ द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसंबन्ध ’ इति । यागोऽत्र कर्तव्य इति श्रूयते स्वर्गकामस्य, तत्रावश्यं स्वर्गस्य यागस्य च संबन्धः । तत्र भूतं द्रव्यं भव्यं कर्म । भूतस्य च भव्यार्थता न्याय्या दृष्टार्थत्वात् । न तु भव्यस्य भूतार्थता । तत्र दृष्ट उपकारस्त्यज्येत तत्कथं पुनरवगम्यते यागः कर्तव्यतया चोद्यत इति । यदा कामस्यापि कर्तव्यतास्माद्वाक्यादवगम्यते ।