पृष्ठम्:काठकोपनिषत्.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१ १ १ काठकोपनिषद्भाष्यद्वयै १।१।१९ उच्यते । कामस्य कर्तव्यता वाक्यात्, यज्यर्थस्य कर्तव्यता श्रुतेः । श्रुति- क्ष्च वाक्याद्बलीयसी । तस्माद्यमर्थः । स्वर्गकामो यागं कुर्यात्-इति स्वर्ग- कामस्य यागः कर्तव्य इति । कर्तव्यश्च सुखवान् । अकर्तव्यो दुःखवान् । कर्तव्य इति चैनं बूते । तस्मात्सुखफलो यागो भविष्यति । स तु यस्थे- च्छा तस्य सिध्यति नान्यस्येति गम्यते । तेन स्वर्गेच्छा यागस्य गुणभूता सर्वस्यापि कर्मणो द्रव्येच्छा भवति गुणभूता तया द्रव्यमानेतुं यतते दृष्टेनैव द्वारेण । इहतु स्वर्गसंज्ञकद्रव्येच्छैव नियम्यते यथैव सा गुणभूता प्राप्ता । तथैव सती नियम्यते दृष्टनैव द्वारेण, नादृष्टेनोपकारेण । तेन स्वर्गेच्छया गुणभूतया स्वर्गद्रव्यं प्रति यतिष्यते यागं साधयितुम् । अथाप्यदृष्टेन तथापि न दोष । ’ असाधकं तु तादथ्र्यात् ' ६।१।१।२ ( सिद्धान्तसू- त्रम्) तुशब्देन पक्षो व्यावर्त्थते । तत एतावत्तावद्वर्णयन्ति-प्रीतिः स्वर्ग इति । कुत एवमुक्तं भवता प्रीतिविशिष्ट द्रव्ये स्वर्गशब्दो वर्तत इति । यद्येवं पूर्वं तर्हि प्रीतौ वर्तितुमर्हति तां हि स न व्यभिचरति । व्यभिचरति पुनर्द्रव्यं-यस्यैव प्रीतिसाधनस्य द्रव्यस्य वक्ता स्वर्गशब्दस्तदेव यदा न प्रीतिसाधनं भवति तदा न स्वर्गशब्देनाभिधीयते । तस्मात्प्रीतिवचनोऽयम्। यत्तूक्त्तं दण्डिशब्दवदिति । सोऽपि प्रतीते शब्दाद्दण्डे, दण्डिनि प्रत्ययमा- दधाति । अन्तर्गतस्तत्र दण्डशब्दः स दण्डस्य वाचकः । इह पुन: स्वर्ग- शब्द एव प्रीतेरभिधाता । प्रीतिवचनश्चद्यागो गुणभूतः प्रीतिः प्रधानम् । कुत । तादथ्यत्पुरुषप्रयत्नस्य । प्रत्यर्थं हि पुरुषो यतते तेन न प्रीति- योगसाधनमिति विज्ञायते । द्रव्यं हि यागसाधनं न ऋते द्रव्याद्यागो भवति । यस्माद्द्व्यदेवताक्रिये यजतिशब्दो वर्तते । असत्यामपि प्रीत्यां भवति यागः । यदि च यागो न प्रीत्यर्थो भवेत् असाधकं कर्म भवेत् । असाधयितारं नाधिगच्छेत् । यो हि प्रात्यर्थ: स साध्यते नान्यः । ननु कर्तव्यतया यागः श्रूयते । उच्यते-सत्यं कर्तव्यतया श्रूयते कामोऽपि क- र्तव्यतयावगम्यते । आह–क्ष्रुत्या यागस्य वाक्येन कामस्य । न चोभयो- र्वाक्यभेदः प्रसंगात् । उच्यते । यद्यपि यागः कर्तव्यः श्रूयते तथापि न कर्तव्यः । सुखदः कर्तव्यो भवति द:खदो यागः । तस्मात्प्रत्यक्षेणाकर्तव्यः प्रत्यक्षेण च दुःखदः । कर्तव्यतावचनादनुमानेन सुखदो भवति–इति । उच्यते । अनुमानं च प्रत्यक्षविरोधान्न प्रमाणम् । तस्मादकर्तव्यो यागः । यदि न प्रीत्यर्थः । अथान्येन फलवचनेन संभंत्स्यत इति । उच्यते—सं