पृष्ठम्:काठकोपनिषत्.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०९ काठकोपनिषद्भाष्यद्वये १।१|१९ विशेषणन्यायेनेति । नागृहीतविशेषणा विशिष्टबुद्धिरिति हि न्यायस्वरू- पम् । अस्यार्थ:-विशेषणज्ञानाभावे विशिष्टबुद्धिनेत्पद्यते । न ह्यप्रतीते विशेषणे विशिष्टं केचन प्रत्येतुमर्हन्तीत्यर्थः । यथा गोत्वरूपाविशेषणज्ञानेन गोत्वविशिष्टगोव्यक्तर्ज्ञानम् । प्रकृते स्वर्गकामाधिकरणे स्वर्गकाम इति विशे- षणज्ञानं विना विशिष्टस्याधिकारिणो ज्ञानं न भवेत् । तदर्थं स्वर्गशब्दस्य प्रीतिरूपोऽर्थः प्रदर्शितः । अत्र प्रकाशिकाकृद्भिः शबरभाष्यमनुसृत्यैव सर्वे पूर्वोत्तरपक्षाः संगृहीता अतस्तदेव सूत्रत्रयगतं शबरभाष्यमुद्ध्रध्रियते तेन मूलं प्रकाशिकास्थं सुखावबोधं भवेत् । तथाहि-’ यागादिकर्मणां स्वर्गफलसाधनताधिकरणम् । ६।१।१८ अधिकारन्यायः । द्रव्याणां कर्म- संयोगे गुणत्वेनाभिसंबन्धः ६।१।।१ पूर्वपक्षसूत्रमिदम् । ’ दर्शपूर्णमा- साभ्यां स्वर्गकामो यजेत ' ' ज्योतिष्टोमेन स्वर्गकामो यजेत ’ इत्येवमादि समान्नायते तत्र सन्देहः । किं स्वर्गे गुणतः कर्म प्रधानत: । उत कर्म गुणतः स्वर्गः प्रधानतः । इति । कुतः संशयः । इह स्वर्गकामोऽपि निर्दि- श्यते यजेतेत्यपि । अत्र स्वर्गकामयागयोः संबन्धो गम्यते । तस्मिमक्ष्च संबन्धे किं यागः साधनत्वेन संबध्यत उत साध्यत्वेन । इति भवति वि- चारणा । तत्र यदि स्वर्गकामस्य पुरुषस्य यागः कर्तव्यतया चोद्यते स्वर्ग- कामेन यागः कर्तव्य इति, स्वर्गच्छाविशिष्टस्य स सिध्यतीति गम्यते । स्वर्गेच्छा तत्र पुरुषस्य यागं प्रत्युपदिश्यते तेन तस्य स सिध्यति नान्य- स्येति । यः स्वर्गकामः स शक्नोति पुरुषो यागं साधथितुम् । अथ स्वर्ग- कामस्य कामः कर्तव्यतया चोद्यते ततो यागविशिष्टा कर्तव्यतेति यागः साधकोऽभ्युपगम्यते । स चायमुभयोरप्यर्थ एतस्मादुच्चारिताद्वाक्याद्रम्यते । थागो वा कर्तव्यः कामो वेति । न चैतद्यौगपद्येन संभवति यदा कामो न तदा यागः । यदा यागो न तदा काम । वचनव्याक्तभेदादुपपन्नः संशयः । तथेदमपरं संदिग्धम् । किं प्रीतिः स्वर्ग उत द्रव्यम् । इति । यदि द्रव्यं स्वर्गस्ततः पधानं कर्म द्रव्यं गुणभूतम् । अथ प्रीतिः स्वर्गस्ततो यागो गुण- भूतः स्वर्ग: प्रधानम् । इति । कुतः संशय । नास्त्यत्र कामस्य गुणत्वेन प्राधान्येन वा श्रतिः । संबंधमात्रं त्वस्य यागेन गम्यते । द्रव्यस्य तु कर्मा- र्थता स्वभावतः । पुरुषप्रयत्नस्य च फलर्थता । किं तावत्प्राप्तम्-स्वर्गो गुणतः कर्म प्रधानत इति । तत्र तावद्वर्णयन्ति द्रव्यं स्वर्ग इति । कथमव- गम्यते—सर्वेषामेव शब्दानामर्थज्ञाने लौकिकः प्रयोगोऽभ्युपायः । तस्मिश्च