पृष्ठम्:काठकोपनिषत्.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१।१।१९ बालबोधिनी १०८ जातविरोधित्वात्तस्य प्राबल्यम् । तद्वशेनोपसंहारो नेयः । अत्रेदमुदाहर- णम् प्रजापतिर्वा इदमेक आसीत् । स तपोऽतप्यत तस्मात्तपस्ते- पानात्त्रयो देवा असृज्यन्त अग्र्वाियुरादित्यः । ते तपोऽतप्यन्त । तेभ्यस्तेपानेभ्यस्त्रयो वेदा असृज्यन्त । अग्निर्वात्रैक्ष्ग्वेदो वायोर्यज़र्वेद आदि- त्यात्सामवेदः । इत्येवमुपक्रम्य निगमने (उपसंहारे) इदं श्रूयते । उच्चै- र्त्र्क्षचा क्रियते । उच्चैः साम्ना । उपांशु यजुषा–इति । अत्र ऋक्शब्दे- नोपक्रमानुसारमुपसंहारे ऋग्वेदो गृहीतो भवति । भूयोऽनुग्रहार्थमल्पीयानुप- क्रमो बाध्यतामिति शंकते-नैवेति । भूयसामिति । इदं संपूर्णसूत्रमेवम्- ’विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात्सधर्मत्वम् ’ जै. सू. १२।२। २२ विवृतं चैतच्छबराचार्यैः विप्रतिषिद्धधर्माणामेतेषामाग्निष्टुतश्चैकाद- शानामन्हां सधर्मत्वं स्यात्तदीयो धर्मः कर्तव्य । को हेतुः । भूयस्त्वमेव । बहुषु गुणसंपन्नेषु महत्फलं भवति । एकस्मिन्नल्पं फलं भवति । एष हि लोके दृष्टान्तः । एकादशसु प्रदीपेषु तैलवर्तिसंपन्नेष्वेकस्मिन्गृहे महान्प्र- काशेो भवति विपर्ययेऽल्प किं पुनरिहोदाहरणम् । सुब्रह्मण्याग्निष्टुत्या- ग्नेयी । इतरेष्वहःस्वैन्द्री कर्तव्या ’ इति । तस्माद्बहूनामनुग्रहस्य न्याय्य- त्वादुपक्रमस्थमल्पं बाध्यम् । समाधत्ते-मुख्यं वेति इदं संपूर्णसूत्रमि- त्थम्मु - मुख्यं वा पूर्वचोदनाल्लोकवत् ' जै. सू. १२।२।२३ एतद्घ- टितद्विसूत्रात्मकमधिकरणम् । तच्चेत्थं विवतं माधवाचार्यैरधिकरणन्याय- मालाविस्तरे–“ अग्नावैष्णवसारस्वत्योरिच्छयाथ मुख्यगम् । आद्यो निया- मकाभावादन्त्यः प्राथम्यतो भवेत्। अग्रावैष्णवमेकादशकपालं निर्वपेत् ’ सरस्वतीमाज्यस्य यजेत इति श्रूयते तत्राग्नावैष्णवस्यैन्द्रविकृतित्वेन सारस्वताज्यस्य चोपांशुविकृतित्वेनाज्यभागमंत्रविकल्पः । नियामकाभावा- दिति चेन्मैवम् । अग्नवैष्णवस्य प्रथमपठितत्वेन मुख्यत्वात्तज्जमनुष्ठानं युक्तम् । एवं चानेनाधिकरणेन प्रथमपठितस्य मुख्यत्वबोधनादुपक्रमस्थस्यैव प्राबल्यं न भूयोऽनुग्रहो न्याय्य तदुक्तं—औपसंहारिकबह्वपेक्षयेति । एवं पूर्वपक्षयित्वा समाधत्ते--अत्रोच्यत इति । स्वर्गकामाधिकरण इति । इदं हि जैमिनीये षष्ठाध्याये प्रथमपादे प्रथममधिकरणम् । इदं च स्वर्गा- दिफलसाधनताधिकरणमिति नाम्ना मीमांसाग्रन्थेष्वभिधीयते । अस्मिन्नधि- करणे ’ स्वर्गकामो यजेत ’ इति वाक्ये स्वर्गशब्देन द्रव्यं गृह्यत उत प्रीतिरिति संशयः । द्रव्यमिति पूर्वपक्ष प्रीतिरित्यत्तरपक्ष नागृहीत-