पृष्ठम्:काठकोपनिषत्.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०७ काठकोपनिषद्भाष्यद्वये १।१।१९ सर्वे हि स्वर्गमेव प्रीतिमेव कामयन्त इत्यर्थः । अस्मिन्सूत्रे 'स्वर्गशब्दः प्रीत्यर्थकत्वेन शबराचार्यैर्व्याख्यात । अपवर्गप्रतिद्वन्द्विवाचितयेति । अपवर्गस्य नित्यस्य मोक्षस्य प्रतिद्वन्द्वी विरुद्धोऽनित्यत्वादिना स्वर्गस्तद्वा- चकत्वादित्यर्थः । लोकसंस्थानचिन्तकैरिति । लोकानां स्वरादिलोकानां यत्संस्थानं विशिष्टदेशस्थितिस्तद्विचारकैर्ज्योतिर्विद्भिरित्यर्थः । अतथात्वात्- ध्रुवसूर्यान्तर्वर्तिलोकत्वाभावात् । बाधकाभावादिति । शक्यार्थबाधे लक्ष- णेति साहित्यशास्त्रविदां मतम् । मुख्यार्थे बाधकं शङ्कते--किमत्रेति । भूतसंप्लवः–प्रलयः । [ पृ. १४ ] अपेक्षितामृतत्वपरतयेतेि । अपेक्षि- तमपेक्षायुतं सापेक्षं भूलोकस्थापेक्षया स्वर्गस्थस्याधिककालपर्यन्तं स्थितिम- त्वादमृतत्वं नतु पूर्णतयामृतत्वमित्यर्थः । निरूढः-रूढिपरिगृहीतः । औपसंहारिकः-उपसंहारे दृश्यमानः । उपसंहारस्यापि षड़विधलिंगघटित- त्त्वात्तात्पर्यनिर्णायकत्वं प्रसिद्धम् । प्रक्रमस्थ —उपक्रमस्थः । अनन्यथा- सिद्धः–अन्यथासिद्धिशून्यः । अन्यार्थरहित इति यावत् । विशेष्यवा- चीति । विशेषणं विशेष्यानुसार्यर्थकं भवति । विशेष्यं तु स्वतन्त्रत्वा- त्स्वार्थं न जहाति । अन्यथानयनासंभवादिति । विशेषणार्थानुसारेण विशेष्यस्यान्यार्थकरणासंभवात् । तद् दृष्टान्तेन साधयति-नहीति । अभिरूप:–सुन्दरः प्रतिबुवता—उत्तरयता । उपक्षिप्ते-पुरो निहिति । कथित इति यावत् । प्रतिषेधेनेति । प्रतिषिद्धं वस्त्वत्यन्तापेक्षितं भवतीति भावः । उपक्रमोपसंहारमध्याभ्यस्तेत्यादि । उपक्रमोपसंहारयोरभ्यास- स्य च तात्पर्यनिर्णायकत्वादित्यर्थः । उपक्रमाधिकरणन्यायेनेति । उप- क्रमस्यासंजातविरोधित्वेनोपसंहारापेक्षया प्रबलत्वात्प्रथमे प्रश्नवाक्ये विद्य- मानस्य स्वर्गशब्दस्य प्रबलत्वम् । उपक्रमाधिकरणन्यायो नामोपक्रमोपसं- हारयोर्विरोध उपक्रमस्यैव प्राबल्यमिति निर्णायको न्यायः । अयं च जैमि- निना तृतीयपादे ’ वेदो वा प्रायदर्शनात् ’ इति द्वितीयसू- त्रेण दर्शितः । अस्य सूत्रस्यार्थः—उच्चैर्त्रक्ष्चेत्युपसंहारवाक्य ऋक्शब्देन ऋग्वेद एव ग्राह्यो नतु ऋटुङ्मात्रम् । यतो वेदस्यैव प्रायदर्शनं प्राथम्यत उपक्रम उक्तिरस्ति । उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादो- पपत्ती च लिङ्गं तात्पर्यनिर्णये ' इत्यभियुक्तोत्ते उपक्रमोपसंहारौ तात्पर्य- निर्णायकावित्यवगतं तत्रोपक्रमो नामारम्भः । उपसंहारो नाम समाप्तिः । तन्मध्य उपक्रमस्य प्रथमपठितत्वेन पूर्ववाक्यैर्विरोधो न संभवति । तेनासं-