पृष्ठम्:काठकोपनिषत्.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१।१।१९ बालबोधिनी १०६ ग्न्यनुष्ठानमेव परमात्पामोसनामिति बोधयति-परमात्मोपासनेनेति । एका- र्थ्यात्-समानार्थकत्वात् ॥ १७ ॥ १ । १ । १८ [ शाङ्करभाष्यम्] [ पृ. १२ ] अन्निशब्देन ध्यानमुच्यत इत्याह---- क्रतुमिति क्रतुं संकल्पं ध्यानमिति यावत् । मृत्युपाशानिति । पाशशब्दो बन्धवाची । अधर्माज्ञानादयो मृत्युबन्धाः । विराडात्मस्वरूपप्रतिपत्त्येति । विराडात्मस्वरूपं लब्ध्वा ॥ १८ ॥ [ प्रकाशिका ] [ पृ. १२ ] नाचिकेतमिति । पूर्वभंत्रार्थे नाचिकेत- शब्दस्य भिन्नोऽर्थः । अत्र च भिन्नः ॥ १८ ॥ १ । १ । १९ [ शाङ्करभाष्यम्] पुनरुक्ति परिहरति-उक्तोपसंहार इति । जनास इति । “आज्जसेरसुक्” पा. सू. ७।१।५० इत्यसुगागमः । अदत्त इति। तृतीयवर इति शेष ॥ १९ ॥ [ प्रकाशिका ] अत्र प्रकाशिकाकृाद्रिः शांकरपाठातिरिक्त एको मन्त्रो गृहीतः । स च प्रकाशिकायां मुद्रितः । तत्प्रकाशिकेदानीं व्याख्यायते । अपुनर्भवहेतुभूतमिति। पुनर्भवः-पुनर्जन्म। कोषेषु-पुस्तकेषु । कैश्चित्- इति न किन्तु मतान्तरानुयायिभिर्माध्वादिभिरपि न व्याख्यातस्तेन तत्संमतोऽपि नायं मंत्रपाठ: [ पृ. १३ ] स्वर्गशब्देन मोक्षरूपोऽर्थो ग्राह्य इति साधयति--नचैतदित्यादिना । भाष्यकृता-श्रीभाष्यकृता श्री- रामानुजाचार्येण । प्रस्तुत्योति । ’ त्रयाणामपि चैवमुपन्यासः प्रक्ष्नश्च ’ ब्र० सू० १।४।६ इति सूत्रे । निर्दिश्यमानतयेति । ’ श्वो भावा मत्यै- स्य यदन्तकैतत् ' इत्यादिना । क्षयिष्णुः– क्षयशील । प्रार्थ्यमानत्वा- नुपपत्तेरिति । यः क्षयि फलं निन्दति स एव क्षयिष्णुं स्वर्गं कथं प्रार्थ- येतेत्यर्थः । स्वर्गशब्दवाच्यत्वसंभवादिति । तेन स्वर्गशब्दस्य मोक्षरू- पार्थ लक्षणापि न कर्तव्या भवतीति भाव । करणतः-साधनद्वारा । तात्पर्यंतः—सारार्थतया । चतुरभ्यस्तस्य-चतुर्वारं निर्दिष्टस्य । मुख्यया वृत्त्या-अभिधावृत्या । अमुख्यया-लक्षणया । स स्वर्ग इत्यादि । अस्य जैमिनीयसूत्रस्यायमर्थः--यत्र विशेषतः फलं नोक्त्तं तेषां विश्वजिदादीनां कर्मणां स्वर्ग एव फलम्ं । यतः सर्वजनान्प्रति स्वर्गस्य प्रीतेः समानत्वात्।