पृष्ठम्:काठकोपनिषत्.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०९ काठकोपनिषद्भाष्यद्वये १।१।१७ त्रवर्णामित्यर्थः । सृज्ञधातोर्गत्यर्थमादायाह--यद्वेति । अकुत्सितामिति । धूमादिमार्गेणार्चिरादिमार्गेण च यत्फलं लभ्यते सा न कुत्सिता निन्दिता गतिः किन्तु तदितरा “अथैतयोः पथोर्न कतरेणचन तानीमानि क्षुद्राण्यसकृ- दावर्तीनि भूतानि' छां. ५ । १० । ८ इत्युक्ता कुत्सिता गति । त्वंतु पूर्वोक्तं फलद्वयमेव गृहाणेत्यर्थः । [ पृ. ११ ] ननु कर्माकृत्वा केवलवर- प्रदानेन फललाभः कथं स्यादित्याह--अन्यदपीति । अनेकफलकारणीभूतं शास्रसिद्धमन्यदपि कर्मविज्ञानं स्वीकुर्वित्यर्थः ॥ १६ ॥ १ । १ । १७ [ शाङ्करभाष्यम् ] त्रिणाचिकेत इति । त्रिःकृत्वो नाचिकेत इति विग्रहानुसारं त्रिर्णाचिकेत इत्यपेक्षते तत्र विसर्गलोपश्छान्दसः । यथावदिति। यथावत्-यथाकालम् । उपनयनपर्यन्तं मातृतः शिक्षणं वेदाध्ययनूपर्यन्तं पितृत आचार्यतश्च शिक्षां प्राप्येत्यर्थः । प्रामाण्यकारणमिति । धर्मज्ञान- स्येति शेष । यथा मातृमान् पितृमानाचार्यवान् ब्रयात्तथा तच्छैलिनोऽब्र- वीदिति श्रुत्यन्तरात्तन्मात्राद्यनुशासनं धर्मज्ञानस्य प्रामाण्यकारणमित्यर्थः । प्रत्यक्षानुमानागमैरिति। इदमवशिष्टप्रमाणत्रयस्योपलक्षणम्। मीमांसाद्वयेऽ पि प्रत्यक्षानुमानोपमानागंमार्थापत्यनुपलब्धतिषण्णां प्रमाणानां ग्रहणात् । षट्त्सु त्रयाणामेव प्राधान्यं द्योतयितुं तथा निर्देशः ।विशुद्धिः-धर्मावगतिः । इज्याध्ययनदानानामिति । दानं-बहिर्वेदि दीयमानम् । यज्ञाङ्गदानस्यैज्या- यामन्तर्भावात् । यथा त्रिकर्मकृतस्तरणं तथा त्रिणाचिकेतस्यापीति फलमुक्त्वा फलान्तरमप्याह--किंचेति । सर्वज्ञो हीति । हिरण्यगर्भजत्वात्सर्वज्ञत्वम् । दृष्टा चात्मभावनेति । इदमत्र तात्पर्यम् । विंशत्यधिकानि सप्त शतानी- ष्टकानां संख्या संवत्सरस्य च प्रात:सायंकालयोरनष्ठीयमानान्यान्निहोत्राणि तावत्संख्याकान्येव तैरिष्टकास्थानीयैश्चितोऽग्रिहमित्यात्मभावेन ध्यात्वेति स्वबुद्धिः स्वेन कर्तव्या बुद्धिरुपासना तया. साक्षात्कृतां शान्ति वैराजं फ- लम् । ज्ञानकर्मसमुच्चयानुष्ठानेनेति । ज्ञानमुपासनं नत्वभेदज्ञानमनुष्ठाँ- नेनेति पदस्वारस्यात् । कर्म-चयनाख्यम् ॥ १७ ॥ [ प्रकाशिका ] अनुवाकत्रयाध्यायीति । त्रिणाचिकेत इत्यस्यार्थः शाङ्करभाष्ये त्रिःकृत्वो नाचिकेतोऽग्निश्चितो येनेति कृतः । अत्र ’ अयं । वाव ' इत्याद्यनुवाकत्रयाध्यायीति कृतः । तत्र शाङ्करभाष्यार्थ एव संगतः पूर्वस्मिन्मंत्रे तवैव नान्ना भवितायमन्निरिति श्रुतिवचनात् । [ पृ. ११ ] अ-