पृष्ठम्:काठकोपनिषत्.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१।१।१६ बालबोधिनी १०४ [ प्रकाशिका ] [ पृ. ९] इति भाव इति । छान्दोग्यवाक्यात्स्व- रूपाविर्भावलक्षणो यो मोक्षस्तेन शब्दितं तत्तात्पर्यभूतं यदमृतत्वं तद्विशिष्टदेशयुक्तब्रह्मप्राप्तिपूर्वकमस्ति । पर्व देशविशिष्टं ब्रह्म प्राप्यते ततोऽमृतत्वलाभ इति तात्पर्यम् ॥ १३ ॥ १ । १ । १४ [ शाङ्करभाष्यम् ] उरूपो निपातो यदित्यर्थे । शिष्यबुद्धिसमाधा- नार्थमिति । समाधानं नामेतरविषयनिराकरणपूर्वकं चित्तस्यैकविषयत्वा- पाद्नम् । प्ररोचना प्रवृत्तिजनिकेत्यभिप्रेत्याह-अधुनेति । विराड्रूरूपेणेति स त्रेधात्मानं व्यकुरुतेति श्रुतेरन्निवाय्वादित्यरूपेण समष्टिरूपो विराडेव व्यवस्थित इति तेन विराड्रूपेणान्निर्जगतः प्रतिष्ठत्युच्यते ॥ १४ ॥ [प्रकाशिका] [पृ.१०]एतत्स्वरूपमिति । एतव्द्याख्यायामेतदिति पाठो न त्वेतमिति । इदं ज्ञानं ब्रह्मोपासनद्वारा मोक्षं प्रति कारणं भवतीति वा क्यार्थः । विद्लृ लाभ इत्यस्य स्वीकारेणाह--यद्वेति । हेतुहेतुमद्भावेति । ज्ञानं हेतुः प्रतिष्ठालाभो हेतुमान् ॥ १४ ॥

१ । १ । १५ [ शाङ्करभाष्यम् ] [ पृ. १० ] श्रुतेर्वचनामिति । सविस्तरमग्निज्ञानं चयनप्रकरणे द्रष्टव्यमिति श्रतिर्बोधयति । लोकादिमिति । स वै शरीरी प्रथमः स वै पुरुष उच्यते । आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥१॥ इति स्मृत्या विराजोऽग्रेरादित्वं ज्ञेयम् । येन प्रकारेंणेति--तत्तदिष्टका- प्रकाशतत्तन्मंत्रोच्चारणेनेत्यर्थः । नचिकेतसो धारणाशक्तिमाह---यथा वदिति । प्रत्युच्चारितवान्-यमोक्त्यनुसारमनूदितवान् ॥ १९ ॥ [ प्रकाशिका ] यावती:—यावत्यः । प्रथमाबहुवचने पूर्वसवर्णदीर्घ- श्छान्दसः । लोके " दीर्घाजसि च " पा. सू. ६ । १ । १०५ इति तांतेिषधस्य सत्वात् । ९५ ।

१ । १ । १६

[ शाङ्करभाष्यम् ] शिष्ययोग्यतां —उक्तार्थग्रहणधारणसामर्थ्यरूपाम् । अक्षुद्रबुद्धिरिति । अयं शिष्यो मदुत्तं सर्वं ग्रहीष्यति तेन मम माहात्म्यन्यू नतेति प्राकृतगुरुवदस्य बुद्धिर्नेत्यर्थः । अथवा वरत्रयमेवालमिति कार्पण्या- पहता बुद्धिरविद्यमाना यस्य । शब्दवतीं-स्वनयुक्ताम् । स्वनकारणमाह- रत्नवतीमिति । विचित्रामिति । नीलादिनानाविधरत्नयुक्तत्वाद्वीचेि