पृष्ठम्:काठकोपनिषत्.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०३ काठकोपनिषद्भाष्यद्वये १।१।१३ अभ्रातृका कन्या, पित्रास्यां जायमानः पुत्रो मम भवत्विति परिभाषणेन यदा जामात्रे दीयते तदा तस्यां जायमानः सुतः प्रतिगृहीतुर्दातुश्च कन्या- पितुर्द्धयोरपि भवति स द्वयामुष्यायण इत्यभिधीयते । इयमभ्रातृका कन्या पुत्रिकेत्यभिधीयते । एवं चैतादृशपुत्रिकापुत्र उभयोरप्यपत्यं भवति तत- क्ष्चोद्दालकारुणाभ्यामुभाभ्यामपि शब्दाभ्यामपत्यार्थेञ्प्रत्ययः साधुः । अनेनेदं सिद्धम् । यदुद्दालकभार्यायामरुणस्याभ्रातृककन्यायामुत्पन्नः पुत्रो गौतम आसीदिति । उद्दालकः प्रथमोक्तत्वात्पितैव भवितुमर्हति । अरुणश्च मातामह इति ध्येयम् । दत्तकसंबन्धेन द्विगोत्रत्वादपि द्वयामुष्यायणत्वं धर्मशारत्रे प्रसिद्धम् । तेन जारजत्वशङ्का परास्ता । छान्दोग्योपनिषत्प्रथमा- ध्यायद्वादशखण्डप्रथममन्त्रव्याख्यायामपि ’ द्वयामुष्यायणो ह्यसौ द्विनामा द्विगोत्र इत्यादि हि स्मृतिः, इति शंकराचार्यैरुक्तम् । तत्रानन्दज्ञानोक्तिरेवम्- यतः सुतो जायते येन चायं धर्मतो गृह्यते तयोरुभयोरित्याह-उभयत इति । ’उभयोरप्यसावृक्थी पिण्डदाता च धर्मतः ’ इति स्मरन्तीत्यर्थः । मृत्युगोचरादिति । मृत्युविषयात्तदृहादित्यर्थः ॥११॥ [ प्रकाशिका ] [ पृ. ८ ] गोत्रापत्यमिति ’ अपत्यं पौत्रप्रभृति गोत्रम् ’ पा. सू. ४ । १ । १६२ इति पाणिनिना परिभाषितत्वात्पौत्रः प्रपौत्रो वेत्यर्थः । एवं च गौतम उद्दालकस्य सुतोऽरुणस्य पौत्रादिः । द्विवेचनाभाव इति । शाङ्करभाष्यगृहीतपाठे तु द्वित्वं दृश्यते ॥ ११ ॥ १ । १ । १२ [ शाङ्करभाष्यम् ] स्वर्गसाधनमग्निज्ञानं प्रष्टुकामः प्रथमं स्वर्ग स्तौति- स्वर्गे लोक इति । रोगादिनिमित्तमिति । आदिपदेनाधिदैविकाधिभौ- तिकपीडाग्रहणम् । न च तत्र तवापि मृत्योर्भीतिरित्याह-नचेति । इहलो- कवदिति । अस्मिल्लोके यथा जरायुक्तः पुरुषस्त्वत्तो बिभेति तथा तत्र स्वर्गे न कोऽपि कस्मादपि बिभेतीत्यर्थः । अतिक्रम्येति । उल्लडध्य अप्राप्येत्यथेः ॥ १२ ॥ [ प्रकाशिका ] उत्तरत्र—ऊनविंशतिकारिकायाम् ॥ १२ ॥ १ । १ । १३ [ शाङ्करभाष्यम् ] [ पृ. ९ ] अध्येषीति । अधिपूर्वकेक्स्मरणे इत्य- स्य धातो रूपम् । तदेतदिति । यस्मादग्रिमृतत्वसाधनं तस्मादेतद्विषयकं ज्ञानं वृण इत्यर्थः ॥ १३ ॥