पृष्ठम्:काठकोपनिषत्.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२।३।१३ काठकोपनिषत् ८६ अस्तीत्येवोपलब्धास्य तत्त्वभावः प्रसीदति ॥ १३ ॥ यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ १४ ॥ यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः । [ शांकरभाष्यम् ] प्युभयोः सोपाधिकनिरुपाधिकयोरस्तित्वतत्त्वभावयोः । निर्धारणार्था षष्ठी । पूर्वमस्तीत्येवोपलब्धस्यात्मनः सत्कायेंपाधिकृतास्तित्व- प्रत्ययेनोपलब्धस्येत्यर्थः । पश्चात्प्रत्यस्तमितसर्वोपधिरूप आत्मनस्तत्त्वभावो विदिताविदिताभ्यामन्येऽद्वयस्वभावो " नेति नेतीत्यस्थूलमनण्वह- स्वमदृश्येऽनात्म्येऽनिलयने " बृ. ३।८।८ इत्यादिश्रुतिनिर्दिष्टः प्रसीदत्य- भिमुखी भवति । आत्मप्रकाशनाय पूर्वमस्तीत्युपलब्धवत इत्येतत् ॥ १३॥ एवं परमार्थदर्शिनो यदा यस्मिन्काले सर्वे कामाः कामयितव्यस्यान्य- स्याभावात्प्रमुच्यन्ते विशीर्यन्ते येऽस्य प्राक्प्रतिबोधाद्विदुषो हृदि बुद्धौ श्रिता आश्रिताः । बुद्धिर्हि कामानामाश्रयो नात्मा । " कामः संकल्प: " बृ.१।६।३ इत्यादिश्रुत्यन्तराच्च । अथ तदा मर्त्यः प्राक्प्रबोधादासीत्स प्रबोधोत्तरकालमविद्याकामकर्मलक्षणस्य मृत्योर्विनाशादमृतो भवति, गमन- प्रयोजकस्य मृत्योर्विनाशाद्रमनानुपपत्तेरत्रेहैव प्रदीपनिर्वाणवत्सर्वबन्धनोप- शमाद्रह्म समश्नुते ब्रौव भवतीत्यर्थः ॥ १४ ॥ कदा पुनः कामानां मूलतो विनाश इत्युच्यते—यदा सर्वे प्रभिद्यन्ते [ प्रकाशिका ] लब्धव्य । वेदान्तवाक्यैरस्तीत्युपलब्धस्य मनसाप्यस्तीत्येवं मनननिदिध्यासने कर्तव्ये इत्यर्थः । उभयोर्हेत्वोरुभाभ्यां शब्दमनो- रूपाभ्यामस्तीत्येवोपलब्धस्य ज्ञातवतो भुक्ता ब्राह्मणा इतिवदयं निर्देशः । तत्वभावः प्रसीदति मनः प्रसन्नं भवति शान्तरागादिदोषं भवतीत्यर्थः॥१३॥ कामादेर्विषयविषयकमनोरथा हृद्रता यदा शान्ता भवन्ति तदानन्तर- मेवायमुपासकोऽमृतो भवति । विक्ष्लिष्टाक्ष्लिष्टपूर्वोत्तरदुरितभरो भवतीत्यर्थः । अत्रैव ब्रह्मोपासनवेलायां ब्रह्मानुभवतीत्यर्थ । “ समाना चासृत्युपक्र- मादमृतत्वं चानुपोष्य ' ब्र०सू० ४।२।७ इत्यत्र भाष्यम्-अनुपोष्य शरीरेन्द्रियादिसंबन्धमदग्ध्वैव यदमृतत्वमुत्तरपूर्वाघयोरक्ष्लेषविनाशरूपं प्रा- प्यते तदुच्यते ‘यदा सर्वे प्रमुच्यन्ते’ इत्यादिकया श्रुत्येत्यर्थः । अत्र ब्रह्म समश्नुतत इति चोपासनवेलायां यो ब्रह्मानुभवस्तद्विषयमित्यभिप्राय इति ॥१४॥ उक्तमेवार्थं सादरेणाभ्यसलुपदेष्टव्यांश एतावानेवेत्युपसंहरति-ग्रन्थयो