अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥ १२ ॥ अस्तीत्येवोपलब्धव्यस्तत्वभावेन चोभयोः ।
[शांकरभाष्यम्] चक्षुषा नान्यैरपीन्द्रियैः प्राप्तुं शक्यत इत्यर्थः । तथापि सर्व- विशेषरहितोऽपि जगतो मूलमित्यवगतत्वादस्त्येव कार्यप्रविलापनस्यास्ति- त्वनिष्ठत्वात् तथा हीदं कार्यं सूक्ष्मतारतम्यपारम्पर्येणानुगम्यमानं सद्बुद्धि- निष्ठामेवावगमयति । यदापि विषयप्रविलापनेन प्रविलाप्यमाना बुद्धिस्तदापि सा सत्प्रत्ययगर्भैव विलीयते । बुद्धिर्हि नः प्रमाणं सदसतोर्याथात्म्यावगमे । मूलं चेज्जगतो न स्यादसदन्वितमेवेदं कार्यमसदित्येवं गुह्येत न त्वेतदस्ति सत्सदित्येव तु गृह्यते । यथा मृदादिकार्यं घटादि मृदाद्यन्वितम् । तस्माज्ज- गतो मूलमात्मास्तीत्येवोपलब्धव्यः । कस्मात् । अस्तीति ब्रुवतोऽस्तित्ववादिन आगमार्थानुसारिणः श्रद्दधानादन्यत्र नास्तिकवादिनि नास्ति जगतो मूल- मात्मा निरन्वयमेवेदं कार्यमभावान्तं प्रविलीयत इति मन्यमाने विपरीतदर्शिनि कथं तद्रह्म तत्त्वत उपलभ्यते न कथंचनोपलभ्यत इत्यर्थः ॥ १२ ॥
तस्मादपोह्यासद्वादिपक्षमासुरमस्तीत्येवात्मोपलब्धव्यः सत्कार्यो बुद्धया- घुपाधिः । यदा तु तद्रहितोऽविक्रिय आत्मा कार्यं च कारणव्यतिरेकेण नास्ति "वाचारम्भणं विकारो नामधेयं मृतिकेत्येव सत्यम्'छां.६।१।४ इति श्रुतेस्तदा तस्य निरुपाधिकस्यालिङ्गस्य सदसदादिप्रत्ययविषयत्ववर्जितस्या- त्मनस्तत्वभावो भवति । तेन च रूपेणात्मोपलब्धव्य इत्यनुवर्तते । तत्रा- [ प्रकाशिका ] इन्द्रियाणि सप्तैव "सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः सप्तः सप्त " मु०२।१।८ इति सप्तानामेव परलोकगति- श्रवणात् । “यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह। बुद्धिश्च न विचेष्टते " इति योगदशायामिन्द्रियाणां परिगणितत्वाच्च सप्तैवेति प्राप्त उच्यते । “हस्तादयस्तु स्थितेऽतो नैवं'ब्र०सू०२।४।६ शरीरे स्थित आदानादिलक्षण- कार्योपयोगित्वाद्धस्तादयोऽपीन्द्रियाण्येव । अतो नैवम् । “ दशेमे पुरुषे प्राणा आत्मैकादश " बृ०३।९।४ आत्मशब्देन मनोऽभिधीयते । " इन्द्रियाणि दशैकं च " । भ० गी० १३ । ५ " एकादशं मनश्चात्र इति श्रुतिस्मृतिभ्यां न्यूनसंख्यावादा उपकारविशेषाभिप्रायाः । अधिक- संख्यावादाश्च मनोवृत्तिभेदादिति स्थितम् । अमुमेवार्थमुपपादयति-अस्तीति ब्रुवतः शब्दादन्यत्रेत्यर्थः । तस्योपनिषदेकगम्यत्वादित्यर्थः ॥ १२ ॥ तत्त्वं भावयतीति तत्त्वभावोऽन्तःकरणं तेन च परमात्मास्तीत्येवोप-