पृष्ठम्:काठकोपनिषत्.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८७ भाष्यद्वयोपेता २।३।१९ अथ मर्त्योऽमतो भवत्येतावद्धयनशासनम् ॥ १५ ॥ शतं चैका च हृदयस्य नाड्यस्तासां मर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति विश्वङ्डन्या उत्क्रमणे भवन्ति ॥ १६ ॥ [शांकरभाष्यम्] भेदमुपयान्ति विनश्यन्ति हृदयस्य बुद्धेरिह जीवत एव ग्रन्थयो ग्रन्थिवद्दृढबन्धनरूपा अविद्याप्रत्यया इत्यर्थः । अहमिदं शरीरं ममेदं धनं सुखी दु:खी चाहमित्येवमादिलक्षणास्तद्विपरीतब्रह्मात्मप्रत्ययोपजन- नाटूह्यैवाहमस्म्यसंसारीति विनष्टेष्वविद्याग्रन्थिषु तन्निमित्ताः कामा मूलतो विनश्यन्ति। अथ मर्त्योऽमृतो भवत्येतावद्धयेतावदेवैतावन्मात्रं नाधिकमस्ती- त्याशङ्का कर्तव्या । अनुशासनमनुशिष्टिरुपदेशः सर्ववेदान्तानामिति वाक्यशेष ॥ १५ ॥ निरस्ताशेषविशेषव्यापिब्रह्मात्मप्रतिपत्त्या प्रभिन्नसमस्ताविद्यादिग्रन्थेर्जी- वत एव ब्रह्मभूतस्य विदुषो न गतिर्विद्यत इत्युक्तमत्र ब्रह्म समक्षुत इत्यु- क्त्तत्वात् " न तस्य प्राणा । उत्क्रामन्ति ब्रह्नैव सन्ब्रह्माप्येति " बृ ४।४।६ इति श्रुत्यन्तराच्च । ये पुनर्मन्दब्रह्मविदो विद्यान्तरशीलिनश्च ब्रह्मलोकभाजो ये च तद्विपरीताः संसारभाजस्तेषामेष गतिविशेष उच्यते प्रकृतोत्कृष्टब्रह्मविद्याफलस्तुतये । किंचान्यदग्निविद्या पृष्टा प्रत्युक्ता च । तस्याश्च फलप्राप्तिप्रकारो वक्तव्य इति मन्त्रारम्भः । तत्र-शतं च शतसं- ख्याका एका च सुषुम्ना नाम पुरुषस्य हृदयाद्विनिःसृता नाड्यः शिरा- स्तासां मध्ये मूर्धानं भित्त्वाभिनिःसृता निर्गता सुषुन्ना नाम । तयान्तकाले हृदय आत्मानं वशीकृत्य योजयेत् । तया नाड्योर्ध्वमुपर्यायन्गच्छन्नादित्य- द्वारेणामृतत्वममरणधर्मत्वमापेक्षिकम् । " आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते " इति स्मृतेः । ब्रह्मणा वा सह कालान्तरेण मुख्यममृतत्वमेति भुक्त्वा भोगाननुपमान्ब्रह्मलोकगतान् । विष्वङ्नानाविधगतयोऽन्या नाड्य उत्क्रमणे निमित्तं भवन्ति संसारप्रतिपत्त्यर्था एव भवन्तीत्यर्थः ॥ १६ ॥ [ प्रकाशिका ] ग्रन्थिवद्दुर्मोचा रागद्वेषादयो यदैव प्रमुच्यन्त इत्यर्थः । एतावदनुशासनमनुशासनायमुपासकस्य कर्तव्यत्वेनोपदेष्टव्यमेतावदेव । वक्ष्यमाणमूर्धन्यनाडीनिष्क्रमणार्चिरादिगमनादिकं न साधककृत्यं किंतूपासन प्रीतभगवत्कृत्यमिति भावः ॥ १९ ॥ विमुक्तश्च विमुच्यत इति पूर्वमुक्तम् । द्वितीयां परममुक्तिमाह-हृदयस्य प्रधाननाड्यः शतं चैका च सन्ति । तासां मध्य एका सुषुम्णाख्या ब्रह्मनाडी