पृष्ठम्:काठकोपनिषत्.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२।३।३ काठकोपनिषत् ८० भयादस्याग्रेिस्तपति भयात्तपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्युर्धवति पञ्चमः ॥ ३ ॥ इह चेदशकद्धोद्धुं प्राक्शरीरस्य विस्रसः । ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥ ४ ॥ [ शांकरभाष्यम् ] कथं तद्रयाज्जगद्वर्तत इत्याह-भयाद्भीत्या परमे- श्वरस्याग्निस्तपति भयात्तपति सूर्यो भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः । न हीश्वराणां लोकपालानां समर्थानां सतां नियन्ता चेद्वज्रोद्यतकरवन्न स्यात्स्वामिभयभीतानामिव भूत्यानां नियता प्रवृत्तिरुपपद्यते ॥ ३ ॥ तच्चेह जीवन्नेव चेद्यघशकच्छक्रेोति शक्तः सञ्जानात्येतद्भयकारणं ब्रह्म बोद्धुमवगन्तुं प्राक्पूर्वं शरीरस्य विस्रसोऽवन्त्रंसनात्पतनात्संसारबन्ध- नाद्विमुच्यते । न चेदशकद्धेोढुं ततोऽनवबोधात्सर्गेषु सृज्यन्ते येषु स्रष्टव्याः प्राणिन इति सर्गाः पृथिव्याद्यो लोकास्तेषु सर्गेषु लोकेषु शरीरत्वाय [ प्रकाशका ] कृता व्याख्यात : । तत्रामुं मन्त्रं प्रस्तुत्य कृत्स्रस्य जगतोऽ- स्मिन्नङ्गुष्ठमात्रे पुरुषे प्राणशब्दनिर्दिष्ट स्थितानां सर्वेषां ततो निःसृतानां तम्मा- त्संजातमहाभयनिमित्तमेजनं कम्पनं श्रूयते तच्छासनातिवृतैः किं भविष्यतीति महतो भयाद्वज्रादिवोद्यतात्कृत्स्नं जगत्कम्पत इत्यर्थः । भयादम्याग्निस्तपती- त्यादिनैकाथ्र्यान्महद्भयं वज्रमुद्यतमिति पञ्चम्यर्थे प्रथमेति । विवृतं चैतच्छुत- प्रकाशिकायाम् । प्राण इति सप्तम्यन्तपदसामर्थ्यात् । स्थितानामित्यध्या हारः । कुतो निःसृतानामित्यपेक्षायां प्रकृतस्यैवोपादानत्वमाह--तत इति । एजनं कम्पनमिति । एन कम्पन इति हि धातुः । प्रत्यवायभयात्स्वस्वकार्य- प्रवृत्तिः कम्पनम् । उद्यतवज्रादिव परमपुरुषात्संजातेन भयेन कृत्स्नं जग- त्कम्पत इत्यर्थ इति । अत्र महद्भयं वज्रमुद्यतमिति चत्वारि पदानि पञ्च- म्यर्थे प्रथमान्तानि । आद्यं पञ्चम्यर्थपदद्वयं भयवाचि । उत्तरं तु पदद्वय तद्धेतुभूतप्राणशब्दितपरब्रह्मपरमिति द्रष्टव्यम् । केचित्तु बिभेत्यस्मादिति भयं भयानकमित्यर्थः । महाभयानकोद्यतवज्रवत्स्वस्मान्निःसृतं सकलं जगत्प्राणशाब्दितः परमात्मा कम्पयति । एजतिर्ण्यर्थगर्भ इत्यमुमर्थं वर्ण- यन्ति । स्पष्टोऽर्थ । " अत एव प्राणः” ब्र. सू. १।१।२३ इत्यधिकरण- न्यायात्प्राणशब्दस्य परमात्मपरत्वे न विवाद इति द्रष्टव्यम् ॥ २ ॥ धावतिशब्द इन्द्रादीनां स्वस्वव्यापारप्रवृत्तिपर । शिष्टं स्पष्टम् ॥ ३ ॥ शरीरस्य विस्रसो वित्रंसनात्पतनात्प्रागिह लोके ब्रह्म बोदुमशकच्चेच्छ-