पृष्ठम्:काठकोपनिषत्.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६१ भष्यदूयोपेता २।३।५ यथादर्शे तथात्मनि यथा स्वप्रे तथा पितृलोके । यथाप्सु परीव ददृशे तथा गन्धर्वलोके छायातपयोरिव ब्रह्मलोके । इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् । [शांकरभाष्यम्] शरीरभावाय कल्पते समर्थो भवति शरीरं गृह्यातीत्यर्थः । तस्माच्छरीरवित्रंसनात्प्रागात्मबोधाय यत्न आस्थेयः ॥ ४ ॥ यस्मादिहैवात्मनो दर्शनमादर्शस्थस्येव मुखस्य स्पष्टमुपपद्यते न लोका- न्तरेषु ब्रह्मलोकादन्यत्र । स च दुष्प्रापः । कथमित्युच्यते-यथादर्शे प्रति- बिम्बभूतमात्मानं पश्यति लोकोऽत्यन्तविवित्तं तथेहात्मनि स्वबुद्धावादर्श- वन्निर्मलीभूतायां विविक्तमात्मनो दर्शनं भवतीत्यर्थः । यथा स्वप्नेऽविविक्तं जाग्रद्वासनोद्भतं तथा पितृलोकेऽविविक्तमेव दर्शनमात्मनः कर्मफलोपभो- गासक्तत्वात् । यथा चाप्स्वविभक्तावयवमात्मरूपं परीव ददृशे परिदृश्यत इव तथा गन्धर्वलोकेऽविविक्तमेव दर्शनमात्मनः । एवं च लोकान्तरेष्वपि शास्त्रप्रामाण्यादवगम्यते । छायातपयोरिवात्यन्तविविक्तं ब्रह्मलोक एवैक- स्मिन् । स च दुष्प्रापोऽत्यन्तविशिष्टकर्मज्ञानसाध्यत्वात् । तस्मादात्मदर्श- नायेहैव यत्नः कर्तव्य इत्यभिप्राय ॥ ५ ॥ [प्रकाशिका] क्नुवांक्ष्चेत् । विकरणव्यत्ययश्छान्दसः । ततस्तस्माज्ज्ञानाभावा- द्धेतोः सृज्यमानसर्वलोकेषु जन्म जरादिमत्त्वलक्षणशीर्यमाणत्वाय भवतीत्यर्थः तस्माच्छरीरपातात्प्रागेवात्मज्ञानाय यतेतेति भावः ॥ ४ ॥

आत्मनो दुर्बोधत्वमाह--यथादर्शे चन्द्रिकाया अभावान्न स्पष्टः प्रतिभासस्तथेह लोक आत्मनीत्यर्थः । यद्वा यथादर्शे दर्पणे प्रतीयमानं वस्तु साक्षाद्दृष्टवस्तुवत्प्रत्यङ्मुखत्वादिकल्पितार्थानवरुद्धतया नोपलभ्यते तथेहात्मविषयिणी प्रतीतिरित्यर्थः । लोकान्तरेऽपि तथेत्याह--यथा स्व प्रदर्शनस्य जाग्रद्दर्शनवत्सम्यक्तया संशयादिविरोधितया पुनरनुसंधानयो- ग्यत्वाभावस्तथा पितृलोक इत्यर्थः । यथा जलान्तरस्थवस्तुनो नेतरवत्स्पष्ट- प्रकाशस्तद्वत्परिददृश इव न वस्तुतः परितो दृश्यत इत्यर्थः । गन्धर्व- लोकेऽप्यापाततः प्रतीतिमात्रमित्यर्थः । यथा छायातपयोर्मिश्रणे शुद्धात- पवर्तिपदार्थवन्नोपलम्भ एवं ब्रह्मलोकेऽपि न सम्यगुपलम्भः । अतो दुरधि- गममात्मतत्वमिति भावः । यद्वा ब्रह्मलोके यद्यपि छायातपयोर्विविच्योप- लम्भवदात्मानात्मस्वरूपयोर्विविच्योपलम्भः संभवति तथापि नात्रत्याना- मात्मतत्त्वं सुलभमिति भाव ॥ ५ ॥