पृष्ठम्:काठकोपनिषत्.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७९ भाष्यदूयोपेता २।३।२ यदिदं किंच जगत्सर्वं प्राण एजति निःसृतम् । महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥ २ ॥ [शांकरभाष्यम्] बुद्धीन्द्रियविषयप्रवालाङ्कुरः श्रुतिस्मृतिन्यायविद्योपदेशप- लाशो यज्ञदानतपआद्यनेकक्रियासुपुष्पः सुखदुःखवेदनानेकरसः प्राण्युपजी- व्यानन्तफलस्तत्तृष्णासलिलावसेकप्ररूढजडीकृतदृढबद्धमूलः सत्यनामादिसप्त- लोकब्रह्मादिभूतपक्षिकृतनीडः प्राणिसुखदुःखेोऽद्भूतहर्षशोकजातनृत्यगीतवादि- ऋक्ष्वेलितास्फोटितहसिताकृष्टरुदितहाहामुञ्चमुञ्चेत्याद्यनेकशब्दकृततुमुलीभूत- महारवो वेदान्तविहितब्रह्मात्मदर्शनासङ्गशस्त्रकृतोच्छेद एष संसारवृक्षो- ऽश्वत्थोऽश्वत्थवत्कामकर्मवातेरितनित्यप्रचलितस्वभाव । स्वर्गनरकतिर्यक्प्रे तादिभिः शाखाभिरवाक्शाखः । सनातनोऽनादित्वाच्चिरं प्रवृत्तः । यदस्य संसारवृक्षस्य मूलं तदेव शुक्र शुभ्रं शुद्धं ज्योतिष्मच्चैतन्यात्मज्योतिःस्वभावं तदेव ब्रह्म सर्वमहत्त्वात्। तदेवामृतमविनाशम्वभावमुच्यते कथ्यते सत्यत्वात्। वाचा- रम्भणं विकारो नामधेयमनृतमन्यदतो मर्त्यम् । तस्मिन्परमार्थसत्ये ब्रह्मणि लोका गन्धर्वनगरमरीच्युदकमायासमाः परमार्थदर्शनाभावावगमनाः श्रिता आश्रिताः सर्वे समस्ता उत्पत्तिस्थितिलयेषु । तदु तद्रह्म नात्येति नाति- वर्तते मृदादिमिव घटादिकार्यं कश्चन कश्चिदपि विकारः। एतद्वै तत् ॥१॥ यद्विज्ञानादमृता भवन्तीत्युच्यते जगतो मूलं तदेव नास्ति ब्रह्मासत एवेदं निःसृतमिति तन्न । यदिदं किंच यत्किचेदं जगत्सर्वं प्राणे परस्मिन्ब्र- ह्मणि सत्यजति कम्पते तत एव निःसृतं निर्गतं सत्प्रचलति नियमेन चेष्टते । यदेवं जगदुत्पत्यादिकारणं ब्रह्म तन्महद्भ्यम् । महच्च तद्भ्यं च बिभेत्यस्मादिति महद्भयम् । वज्रमुद्यतमुद्यतमिव वज्रम् । यथा वज्रोद्यत- करं स्वामिनमभिमुखीभूतं दृष्ट्वा भृत्या नियमेन तच्छासने वर्तन्ते तथेदं चन्द्रादित्यग्रहनक्षत्रतारकादिलक्षणं जगत्सेश्वरं नियमेन क्षणमप्यविश्रान्तं वर्तत इत्युक्तं भवति । य एतद्विदुः स्वात्मप्रवृतिसाक्षिभूतमेकं ब्रह्मामृता अमरणधर्माणस्ते भवन्ति ॥ २ ॥ [प्रकाशिका] क्शाख एषोऽश्वत्थः सनातन "।“ऊर्ध्वमूलमवाक्शाखं वृक्षं यो वेद संप्रति ” इत्याद्याः । सप्तलोकोपरिनिविष्टचतुर्मुखस्यादित्वेन तस्योर्ध्वमूलत्वं पृथिवीनिवासिसकलनरपशुमृगकृमिकीटपतङ्गस्थावरान्ततयाधःशाखत्वमिति । तल्लक्षणमेव ब्रहोति दर्शयति । पूर्वमेव व्याकृतोऽयं मन्त्र ॥ १ ॥ अयं मन्त्रः " कम्पनात्" ब्र. सू. १।३।३९इति सूत्रे भगवता भाष्य-