पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १प्र. ६ख. ] कम्प्रदीपः । उदग्गतायाः संलग्नाः शेषाः प्रादेशमात्रिका: । सप्तसप्ताङ्गुलांस्त्यक्ता कुशेनैव समुलिखेत् ॥ १० ॥ इति । परिशिष्टप्रकाशः । उक्तयोरवशिष्टा यास्तिस्रः उक्तास्ता उदीच्यां रेखायां संलग्नाः सप्तसप्ताङ्गुलान्तराः प्रादेशप्रमाणाः कुशेनैव समुल्लिखेदिति । कुशेनेति सर्व्वाभिः संबध्यते ॥ १० ॥ प्रभा । उदग्गताया इति । शेषा अवशिष्टास्तिस्रो रेखा उदग्गताया: संलग्नाः प्रादेशपरिमाणा: सप्तसप्ताङ्गुलान्तराला: कुशेनैव समु- ल्लिखेत् । कुशेनैवेत्यादि सर्व्वाभिः रेखाभिः संवध्यन्ते । सर्वासां रेखानामुल्लेखनं कुशेनैव कार्य्यमित्यर्थः । अयन्तावदेकः प्रकारः । प्रकारान्तरमुक्त गोभिलपुत्रेण ह्यासंग्रहे। तदुयथा-

"लक्षणं तत् प्रवक्ष्यामि प्रमाणं दैवतच यत्" ।

इत्यभिधायानतिदूरी,

“प्राक्कता पार्थिवी ज्ञेया आग्नेयी चाप्युदक् स्मृता । प्राजापत्या च ऐंन्द्री च सौमों च प्राक् कृता स्मृता ? ॥ ८७ “पार्थिवीं चैव सौमी च रखे हे हादशाङ्गुले । एकविंशतिराग्नेयी प्रादेशिन्ये उमे स्मृतेः ॥ षडङ्गुलान्तराः कार्य्या आग्नेयीसंहितास्तु ताः । पार्थिवावास्तु रेखायास्तिस्रस्ता उत्तरोत्तराः” ॥