पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम प्रदीपः । [ १प्र. ६ख. ] लक्षणे प्राग्ातायास्तु प्रमाणं डादशाङ्गुलम् । तन्मूलसक्ता योदीची तस्या एवं नवोत्तरम् ॥८॥ परिशिष्टप्रकाशः | प्रागुदक् लवणं देशं समं वा परिसमूह्योपलिप्य मध्यतः प्राच लेखामुल्लिख्य उदोचौं च संहतां पश्चान्मध्ये प्राचीस्तिस्र उल्लिख्याभ्युक्षेत् । लक्षणावदेषा सर्व्ववेति सूत्रे लक्षणमुक्तं, तलेखा- परिमाणान्तराभिधानेन स्पष्टीकरोति । या प्रथमा प्रागग्रा लेखा तस्याः परिमाणं द्वादशाङ्गुलं, तन्मूललग्ना योत्तराग्रा तस्या नाङ्गुलाधिकं द्वादशाङ्गुलमेव प्रमाणम् । एकविंशत्यङ्गुल मित्यर्थः -प्रभा । हुतिं हुत्वाऽभिवारयेत् यदि राजन्य ऐन्द्रं यदि वैश्यो वैश्वदेवम्- इति स यदिकादपि वाक्यात् क्रतोविधानम् ॥ ८ ॥ प्रागुदप्रवणं देशं समं वा परिसमूह्योपलिप्य मध्यतः प्राच रेखामुल्लिख्योदोचों च संहतां पश्चात् मध्ये प्राचीस्तिस्र उल्लिख्या- भ्युचेत् लक्षणादृदेषा सर्व्ववेत्वनेनाधानप्रसङ्गेन गोभिलेन लक्षण- मुक्तम् । तत् अष्टीकरोति लक्षणे इति इाभ्याम् । लक्षणे येयं प्रथमा प्राग्गता रेखा तस्याः प्रमाणं दादशाङ्गुलम् । तन्मूललग्ना या उदग्गता रेखा तस्या नवोत्तरं नवाङ्गलाधिकं एवं द्वादशाङ्गुलं प्रमाणं, एक विंशत्यङ्गुलमित्यर्थः ॥ ८ ॥