पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

J [ १प्र. ६ ख. ] कम्प्रदीपः । प्रोषितं यद्यशृण्वानमब्दादिति समाचरेत् । आगते च पुनस्तस्मिन् पादं तच्छ्रुचये चरेत् ॥ ८ ॥ परिशिष्टप्रकाशः । प्रोषित विशेषमाह । प्रोषितमखानम् प्रत्ययव्यत्ययेना- श्रयमाणमित्यर्थः । यद्यव्दादूईमिति समाचरेत् परिविन्देत्, तदाऽऽगते तस्मिन् तच्छुडायें परिवेदनप्रायश्चित्तस्य पादं कुर्य्यात् । अन्दादूईन्त्वनागमने दोषाभावएव । ताब्दप्रतीक्षा तु श्रयमाणविषया। तत्रागतेपि दोषाभाव इति ॥ ८ ॥ 2.9 प्रभा । प्रोषिते विशेषान्तरमाह प्रोषितमिति अमृखानं प्रत्यय- व्यत्ययेनामा मित्यर्थः । अखान इति रत्नाकरसम्मतः पाठः । प्रोषितस्याग्रजस्य वार्त्ताश्रवणाभावे यद्यब्दादूई कनौयान् दाराग्निहोत्रसंयोगं करोति, तदा समागते ज्येष्ठे तत्पापा परिवेदनप्रायश्चित्तस्य पादं कुर्यात् । अनागमने त्वदोष एव । एवञ्च प्रोषितस्य व्राब्दप्रतीचणं यूयमाणविषयमिति पर्य्यवस्यति । अत्र च यद्यध्दादूई समाचरेदित्यनुवादलिङ्गाद्दिधिरनुमातव्यः । चतुरवत्तं पञ्चावत्तं वा जुहोति इति यद्युभयं चिकोषधोत्रञ्चैव ब्रह्मत्वञ्चैवेति चैवमादिवत् । यथाहु:- “लिङ्गादपि विधिर्ज्ञेयो दर्भेषु विकिरो यथा" । दृश्यतेच, यदि ब्राह्मणो यजेत बाईस्पत्यं मध्ये निधायाहुतिमा- मल्हादूर्द्धं, इति पाठान्तरम् |

.