पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कप्रदीपः । परिशिष्ट प्रकाश | वेषां स्त्रीतुल्यवाक्चेष्टः स्त्रोधर्मा षण्डको भवेत् । पुमान् कृत्वा खलिङ्गानि पश्चाद्भिन्द्यात्तथैवच | स्त्री च पुंभावमास्याय पुरुषाचारवद्गुणा । वातजो नाम षण्ड: स्यात् स्त्रोषण्डो वापि नामतः ॥ असल्लिङ्गोऽथ षण्डः स्यात्पण्डस्तु ग्लानमेहनः । अमेष्याशी पुमान् क्लोवो नष्टरेता नपुंसकम् ॥ सकोलक इति प्रोक्तोय: कैव्यादात्मनः स्त्रियम् । अन्येन सह संयोज्य पश्चात्तामेव सेवते" [ १प्र. ६ख. ] पुमान् कव्वेत्वादेरयमर्थः । यः पुमान् लिङ्गान्तराणि कृत्वा खलिङ्ग भिन्द्यात्, स वातजोनाम षण्डः इति संबन्ध: । अनेन दाक्षिणात्यप्रसिद्धं विदप्रजननत्वमुक्तम् । तथा, या स्त्री गृहीत- पुरुषचिह्ना स्वान्तरमभिगच्छति सोऽपि वातजोनाम षण्डः । तथा स एव स्त्रीष ण्डनामापि तथा असलिङ्गोऽपि वातजः षण्ड: स्यादिति संबन्धः । एतेन त्रिप्रकारो वातजः षण्ड इत्युक्रम् | ग्लानमेहनोनिर्विकारलिङ्गः । अमेध्याशी मुखेभगः | यस्त्वात्मनः स्त्रियं परणोपभुज्यमानां सोन्मादस्तामेव सेवते, स कोलक इति । प्रभा । विवाहाग्न्याधानकरणे न परिवेदनदोषस्तानाह देशान्तरस्थेति विभिः | देशान्तरस्थादीन् ज्येष्ठान्, परिविन्दन् न दुष्यतीत्य- ग्रिमेण संबन्धः । देशान्तरमाह बृद्धमनुः --