पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्मप्रदीपः | [ १प्र. ख. ] परिवित्तिपरिवेत्तारौ# नरकं गच्छतो ध्रुवम् । अचीर्णप्रायश्चित्तौ तौ+ पादोनफलभागिनौ ॥ ३॥ परिशिष्ट प्रकाशः । तथाच को दोष इत्याह तो पूर्वाको अकृतप्रायश्चित्तौ इतरोपपातकफलस्य पादो- नफलस्य भागिनौ । “परिवित्तिताऽनुजेन परिवेदनमेव च । इति मनुना उपयातकगणे इयमिदं पठितमिति ॥ ३ ॥ प्रभा । तदाह दाराधिगमनेति। दाराधिगमनं विवाहः । आधान- अग्न्याधानम् । अग्रजेन विवाहे अग्न्याधाने चालते योऽनुजः विवाहमग्न्याधानं च करोति, स परिवेत्ता अग्रजस्तु परिवित्ति- विज्ञेयः ॥ २ ॥ अस्तु तावत्, कस्तत्र दोष इत्यवाह परिवित्तीति । पूर्व्वाई- मतिरोहितार्थम् । तयोर्नरकगमनस्य ध्रुवत्वमुपपादयवाह अपि- चोर्ण प्रायश्चित्ताविति कृतप्राइश्चित्तावपि तौ पादोनं नरकफलं भजेते इति तयोर्नकगमनं ध्रुवमित्यर्थः । न च प्रायश्चित्ते कते तेनैव पापनाशात् कथं पादोनफलमागितेति वाच्यम् । अनन्य गर्तेर्वचनात् । तदुक्तम् । किमिव हि वचनं न कुर्य्यावास्ति ● परिवित्तिः परिवेत्ता च, इति पाठान्तरम| अपि चीर्थप्रायश्चित्तौ इति क ग पुस्तके पाठः।