पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठः खण्डः । आधानकाला ये प्रोक्तास्तथा याञ्चाग्नियोनयः । तदाश्रयोऽग्निमादध्यादग्निमानग्रजो यदि ॥ १ ॥ दाराधिगमनाधाने यः कुर्यादग्रजाग्रिमः । परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्बजः ॥ २ परिशिष्टप्रकाश | ब्रह्मचारी वेदमधीत्यान्त्यां समिधमभ्याधास्थन् । जायाया वा पाणिं जिष्टचन्, इत्यादिना येऽग्न्याधानकाला उक्ताः, याच वैश्यकुलादम्बरीषाद्वेत्यादिनाऽग्नियोनय उक्तास्तदनुरुध्याग्न्याधानं कुर्य्यात् । यद्यग्रजोऽग्निमानिति ॥ १ ॥ अनग्नौ तु ज्येष्ठेऽग्न्याधाने दोषमाह - ज्येष्ठ भ्रातुरग्रकालवर्त्ती यो विवाहाग्न्याधाने कुर्य्यात् स परिवेत्ता विज्ञेवी ज्येष्ठश्च परिवित्तिरिति ॥ २ ॥ प्रभा । आधानकाला इति । गोभिलेन, ब्रह्मचारी वेदमधील्यान्यां समिधमभ्यावास्यचित्यादिना ये प्राधानकाला उक्ता, वैश्य कुला- दाम्बरोषाहाऽग्निमा इत्याभ्यादध्यादिना च या अग्नियोनय उक्त्ता:, तदाश्रयः सवग्न्याधानं कुर्य्यात् यद्यग्रजोऽग्निमान् भवति । तदने- नाग्रजस्थानग्निमत्त्वेऽनुजेनाग्न्याधानं न कार्यमित्युक्त भवति ॥१॥ अग्रजस्थानग्निमत्त्वेऽनुजेनाग्न्याधाने कते किं स्यात् ?