पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४ कम्प्रदीपः । [ १प्र. ५ख ] न दशाग्रन्थिके नैव विषवद्दष्टकर्मणि । कृमिदष्टचिकित्सायां नैव शेषेषु विद्यते ॥ ८ ॥ परिशिष्टप्रकाशः । अपरमपवादमाइ - प्रतिभयेऽध्वनि वस्त्रदशानां ग्रन्थीन् बनीतोपेत्य वसनवतः स्वाहा - कारान्ताभिरित्यनेन सूत्रेण वर्मनि तस्करादिभयेष्वनं वा एक- छन्दस्य मित्यादिऋक्त्रयेण प्रकृतेन खाहान्तेन दशासु ग्रन्थिवय- बन्धनमुक्तम् । तथा, माभैषोर्मा मरिष्यसीति विषवता दृष्टमद्भि- रभ्युचन् जपेत् । इतस्ते अत्रिणा क्रिमिरिति क्रिमिमन्तं देश- मभ्युचन् जपेदिति स्वाभ्यां विषचिकित्सा चोक्ता । तदेतेषु कर्मस, एतदनन्तरोक्तेषु अर्हणीयविंगादीनां पाद्याीविष्टरमधु- पर्कदानादिषु, न श्राद्धमस्तौति ॥ ८ ॥ प्रभा । क्षुद्रपशुख स्त्ययनकाम इति स्वाभ्यां गोभिलेन परिविश्यमानयोः सूर्याचन्द्रमसोयैथाक्रमं बृहत्पवद्रपशुस्वस्त्ययनार्थं ये कम्मणो विहितें तयोः श्राहं नास्ति । पविवेशय, “बातेन मण्डलीभूताः स्य्याचन्द्रमसो: कराः | मालाभा व्योत्रि दृश्यन्ते परिवेशः स उच्यते ॥ इत्युक्तलक्षणः ॥ ८ ॥ न दशाग्रन्थिके इति । प्रतिभयेऽध्वनि वस्त्रदशानां ग्रन्थीन् बनीत उपेत्य वसनवतः स्वाहाकारान्ताभिः सहायानाञ्च स्वस्त्ययनं