पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कमप्रदीपः । गणश: क्रियमाणेषु मातृभ्य: पूजनं सकृत् । सकृदेव भवेच्छ्राहमादौ न पृथगादिषु ॥ १० [ १प्र. ५ख ] ८५ परिशिष्टप्रकाशः । गणशः समुदायेन क्रियमाणेषु माटभ्य: पूजा सर्वदा सकदेव । यथा, यजनोयेऽहनि नित्ये नवयज्ञवास्तुशमनगोयज्ञाख- यज्ञेषु समुदायेन क्रियमाणेषु श्राइमपि तेषु गणादौ एकमेव, न कर्मसंख्यानुसारेण श्राद्धान्यपि तावत्संख्या नीति ॥ १० ॥ प्रभा । भवतीति गोभिलोक्ते वस्त्रदशानां ग्रन्थिबन्धने, तथा मा भैषोर्न मरिष्यसीति विषवता दष्टमगिरभ्युचन् जपेत् इति गोभिलोक्त विषवता दृष्टस्य कम्मणि, तथा हस्तस्ते अविणा क्रिमिरिति क्रिमिमन्तं देशमद्भिरभ्युचन् जपेत् पशूनाञ्चञ्चिकोर्षेदपराह्णे सोता- लोटमाहत्य वैहायसं निदध्यात् तस्य पूबा पाश्चभिः परि- किरन् जपेदिति तेनैवोक्तायां क्रिमिदष्टस्य चिकित्सायां, एवं तदनन्तरं तेनेवोत्तषु अर्हणीयाय पाद्यार्घ्य प्रदानादिषु श्राद्धं नास्ति ॥ ८ ॥ 1 गणश इति । गणशब्द: संघवचनः । एकदिने क्रियमाणे- ब्वनेकेषु कम्स, यथा यजनीयदिने नवयज्ञवास्तुयज्ञगोयज्ञा ख- यज्ञेषु क्रियमाणेषु अन्येष्वप्येवं विधेषु गणस्थादौ मातृपूजनं श्राद्धञ्च सकदेव भवति न तु गणान्तर्गतानां कमाणां प्रत्येकमादी पृथक् पृथक् माटपूजनं श्रावञ्च कर्त्तव्यम् ॥ १० ॥