पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3 कम्प्रदीपः । [ १प्र. ५ख. ] प्रभा । र्भूतत्वं व्यवच्छिनत्ति । शत्रुम यस्य चान्ते इति वचनभङ्गत्रापि तस्य गणाइ हिर्भूतत्वमवगम्यते । गणस्यान्ते गर्भाधानं श्रूयते न त्वेतत् गणान्तर्गतमित्यभिप्राय: । क्षेत्रस्यान्ते पर्व्वत इतिवत् । यच्च अन्तशब्दोऽत्र गणस्यावयवार्थः दशान्तः पट इतिवत् । सौपार्थत्वे उपलक्षणं स्यात् । ततश्व विशेषणोपलक्षणसन्देहे विशेषणत्वेन ग्रहणं न्यायमिति तत्त्वक्वद्भिरुक्तम् । तञ्चिन्त्यम् । वैयधिकरण्येन निर्देशात् । काममन्ते भवेयातामिति, तस्यान्ते सावित्रश्चरुरिति चैवमा दिवदन्तशब्दस्यावसानार्थताऽवगतेः । न हि काम्य- सामान्ये वैश्वदेवबलिकमणी नित्यविशेषोक्लवैखदेवव लिकमणो- रवयवौ, किन्तु तयोरवसाने भवतः । एवं सावित्रयरुर्न व्रतान्तर्गतः किन्तु व्रतावसाने क्रियते । तथावापि गर्भाधानं न गणान्तर्गतं किन्तु गणावसाने श्रूयते । स्मृत्यर्थसन्देहे स्मृत्यन्तर- संवादादेवार्थनिर्णयस्य तेषामन्येषां चानुमतत्वाञ्च मृत्यन्तरे च दर्भाधाने श्राद्धमुक्तम्- "निषेककाले सोमे च सोमन्तोनयने तथा । ज्ञेयं पुंसवने चैव श्राहं कर्म्माङ्गमेवच” ॥ सिद्धे इत्येवमादी । यदप्युक्तम्, एतद्दचनं छन्दोगेतरपर मिति । तदपि चिन्त्यम् । प्रमाणाभावात् । इतरेतराश्रय प्रसङ्गाच तवचनस्य छन्दोगेतरपरत्वे अन्तशब्दोऽवयवार्थी भवेत् तस्मिंच सत्येसहचनस्य इन्दोगेतरपरत्वमिति ॥ ५ ॥