पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कप्रदीपः । विवाहादिः कर्मगणोय उक्तो- गर्भाधानं शुश्रुम यस्य चान्ते । विवाहादावे कमेबाव कुर्य्यात् श्रा नादौ कर्मणः कर्मणः स्यात् ॥ ५ ॥ [ १प्र. ५ख. ] ७८ परिशिष्टप्रकाश: । विवाह आदिस्य । दक्षिणेन पाणिना उपस्थमभिस्पृशेत् विष्णो यनिं कल्पयत्वित्येतयर्चा गर्भं घेहि सिनिवालोति च इति सूत्रोक्तं गर्भाधानं चान्ते यस्य कन्मगणस्य, चतुर्थीहोमसमशनीय- चरुहोमग्टहप्रवेशयानारोहण चतुष्पधामन्त्रणाचभङ्गसमाधानार्थ हो- मादिरूपस्य श्रुतवन्तः स्म । अत्र कमगणे विवाहादौ एकमेव कुर्यात् न प्रतिकर्मादौ । एकेनैव कृतेन बाहेन सर्वाच्ये- तानि श्राद्धवन्ति भवन्तीति ॥ ५ ॥ प्रभा । 2 विवाहादिरिति । विवाह आदियस्य कांगणस्य यस्य कम्गणस्यान्ते गर्भाधानं श्रुतवन्तोवयं, अस्मिन् विवाहादिक- गणे विवाहस्यादौ एकमेव श्राद्धं कुर्य्यात् प्रतिकवादी श्राई न स्यात् । तथाच समशनीयचरुहोमयानारोहणाक्षभङ्गसमा- धानार्थहोम चतुष्पथामन्त्रणादिषु चतुर्थीहीमान्तेषु विवाहादा- वेकमेव श्राद्धं कर्त्तव्यं न प्रतिकर्मादौ । गर्भाधाने तु कर्त्तव्यमेव । तस्य गणाइहिर्भूतत्वात् । यस्य चेति चत्वर्थो गर्भाधानस्य गणान्त- |