पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्प्रदीपः । आधाने होमयोश्चैव वैश्वदेवे तथैवच । बलिकमणि दर्शे च पौर्णमासे तथैवच ॥ २ ॥ नवयज्ञे च यज्ञज्ञावदन्त्येवं मनीषिणः । एकमेव भवेच्छ्राइमेतेषु न पृथक् पृथक् ॥ ३ ॥ [ १प्र. ५ख. ] परिशिष्टप्रकाशः । असकृत् क्रियमाणमध्ये होमादिनवयज्ञान्तेषु विशेषमाह- आघाने अग्न्याधाने, सायंप्रातहमादिनवयज्ञान्तेषु कम्मसु, न केवलं प्रतियोगं प्रतिक मापि श्राद्धं न कर्त्तव्यम् । किं त्वाधानादौ कृतं श्राद्धे सवेष्वेव कृतं भवेत् । एवं चान्येषु श्रावण्यादिषु प्रति- कम यादमित्युक्तं भवति । नवयज्ञ आग्रयणेष्टिः । शेषं सुगमम् | एवं ज्योतिष्टोमपशुयागादिकमपि ये प्रत्यब्दं कुर्व्वन्ति, तैरपि प्रथमप्रयोग एवं प्रतिक मादौ श्राई कर्त्तव्यम् । असक्कदिति । वचनात् ॥ २ ॥ ३ ॥ प्रभा । असकृत् क्रियामाणेषु प्रतिप्रयोगं श्राद्धं नास्तीति विशेषमुला कुत्रचित् प्रतिकर्माऽपि वा नास्तीति विशेषान्तरमाह आधाने इति हाभ्याम् | •अग्न्यावानसायंप्रातम वैश्वदेवबलिक प्रदर्श- पौर्णमासनषयज्ञेषु विषये यज्ञज्ञा मनीषिण एवं वदन्ति । किं वदन्ति ? तदुच्यते । एतेषु कन्मस्खेकमेव श्राद्धं भवेत् न पृथक् पृथक् प्रतिकर्मादौ । एवञ्चाग्न्याधानादौ या कृते सायंप्रात- होमादी सर्ववैव श्राद्धं कृतं भवेदित्युक्तं भवति ॥ २ ॥ ३ ॥