पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १प्र. ४ख. ] कमप्रदीपः । युग्मानेव खस्तिवाच्यानङ्गुष्ठग्रहणं सदा । कृत्वा धुर्यस्य विप्रस्य प्रणम्यानुव्रजेत्ततः ॥ ८ ॥ परिशिष्टप्रकाशः । युग्मानेव नैकं दक्षिणादानेन स्वस्तिवाच्च, धुर्यस्य पंक्तिमून्यस्य ब्राह्मणस्यानङ्गुष्ठपाणिग्रहणं कृत्वा प्रणम्य ततोऽनुगच्छेत् । अत्र च दक्षिणा द्राचामलकादि । तथा ब्रह्मपुराणम्- तपः- "द्राचामलकमूलानि यवांचाथ निवेदयेत् । तान्येव दक्षिणार्थन्तु दयाहिमेषु सर्वदा " || मूलमाईकादि निवेदयेत् श्रादेबिति । वृद्धौ च गोभिलौयै- माया न कर्त्तव्यम् । न योषियः पृथग्दयादिति वक्ष्यमाण- वचनागोभिलेनानुक्तत्वाच्च । अन्चैतु कर्त्तव्यमेव । तथाच माता- "मातृश्राद्धं तु पूर्वं स्यात् पितॄणां तदनन्तरम् । ततो मातामहानां च वृद्धौ श्राइवयं स्मृतम् ॥ त्रिष्वप्येतेषु युग्मांस्तु भोजयेद्राह्मणान् शुचिः । प्रदक्षिणं तु सव्येन प्रदद्याद्देवपूर्व्वकम्” ॥ प्रभा । युग्मानेवेति । युग्मानेव नैकैकं दक्षिणादानेन खस्तिवाच्य धुव्यस्य पंक्तिमूर्धन्यस्य ब्राह्मणस्थानङ्गुष्ठपाणिग्रहणं कृत्वा प्रणम्य १०