पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्मप्रदीपः । परिशिष्टप्रकाश | त्यादि उत्तरे प्रोशे स्वधावाचनस्थानेऽर्वप्रपात्रीयपवित्राच्छादि- तान् पिण्डान् नान्दीमुखेभ्यः पितृभ्यः प्रोयन्तामित्युक्ता सिञ्चेत् । अनन्तरं न्युनीकृतं पात्रमुत्तानं कृत्वा युग्मानेवेत्यादि- वक्ष्यमाणं कुर्य्यात् । गोभिलभाष्यकता तु, सुसंप्रोचितम स्त्वि- त्यादि स्वधावाचनान्तं कृत्वा कृतोत्तानपावः तत्प्रवित्राणि पिण्डानामुपरि दत्वा पिण्डानू वहन्तीरिति सिञ्चेदिति व्याख्यातम् ॥ ८ ॥ [ १प्र. ४ख ] प्रभा । यथायथमस्तु सन्विति ब्राह्मणे: प्रत्युत्तरं कृते पवित्रव्यवहितान् पिण्डान् न्युञ्जपात्रमुत्तानं कृत्वा सिञ्चेत् । यत्तु पिण्डमे॒चनानन्तरं न्युनपात्रमुत्तानं कृत्वा वक्ष्यमाणं कुर्य्यादिति नारायणोपाध्यायेन व्याख्यातम् । तदसमीचीनम् । यथाश्रुतार्थपरित्यागे माना- भावात् । मोमांसाभाष्यकारेणापि शब्दस्य श्रवणमात्रात् योऽर्थो- वगम्यते सत्याऽवगम्यते इत्युक्तम् । न च श्रुतिः परित्यक्षं युक्ता । ग्टह्यभाष्ये भट्टनारायणेनापि उत्तानपात्रकदिति परिषेचनकर्तृ- विशेषणतयैव व्याख्यातम् । यञ्चोक्तं तत्त्वकारण उत्तानपात्र- क्वदिति यथाश्रुतदर्शनात् परिषेचनकर्त्तृविशेषणतया भट्टेन यद्याख्यातं तगोभिल श्रावस्त्रानवलोकनेन । तथाच परिषेचन- सुवानन्तरं गोभिलः । उत्तानं पावं क्त्वा यथाशक्तिदक्षिणां दयादिति । तत्र ब्रूमः । श्राहकल्पे तावत् तत्त्वकारोक्तपाठो न दृश्यते ।