पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्प्रदीपः । अथायभूमिमासिञ्चेत्सुसंप्रोक्षितमस्त्विति । शिवा आपः सन्विति च युग्मानेवोदकेन च ॥५॥ सौमनस्यमस्त्विति च पुष्पदानमनन्तरम् । अक्षतञ्चारिष्टञ्चास्तु अक्षतान् प्रतिपादयेत् ॥ ६ ॥ [ १प्र. ४ख. ] परिशिष्टप्रकाशः । आचमनानन्तरं ब्राह्मणाग्रभूमिं सुसंप्रोचितम स्विति प्रोक्षयेत् । शिवा आप इत्यादिना युग्मानेव नैकं उदकेन हस्ते आसिश्चेत् ॥५॥ सौमनस्येति हस्ते पुष्पदानं कुर्यात् । अनन्तरमचतमित्या- दिना यवान् दद्यात् ॥ ६ ॥ प्रभा । कर्तुः दक्षिणाग्रेषु कुशेषु एष पिण्डदानविधिः अन्यत्र पार्व्वषादी स्मृतो मुनिभिः ॥ ४ ॥ अथेति । ब्राह्मणनामाचमनानन्तरं तेषामग्रभूमिं सुसं- प्रोक्षितमस्वित्यनेनासिञ्चेत् । उदकेनेति वक्ष्यमाणमनुषज्यते । शिवा आप इत्यनेन युग्मानेव ब्राह्मणान् न त्वेकैकं, उदकेना- सिञ्चेत् । हस्ते इति शेषः ॥ ५ ॥ सौमनस्यमिति । सौमनस्यमित्यादिना ब्राह्मणहस्ते पुष्प- दानं कुर्य्यात् । तदनन्तरमचतञ्चेत्यादिना ब्राह्मणहस्ते यवान् दद्यात् । अक्षता यवाः । अक्षतास्तु यवा: प्रोक्ता इत्युक्तेः । 'दापयेदिति खार्थे च । खयमशक्लावन्यद्वाराऽपि वृद्धिश्रा कर्त्तव्यमिति प्रज्ञापनाभिप्रायेण वा ॥ ६ ॥ L