पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम प्रदीपः । [ १प्र. ४ख ] गन्धादीन्निः चिपेत्तूष्ण तत आचामयेद्दिजान् । अन्यत्राप्येष एव स्याद्यवादिरहितो विधिः ॥ ३ ॥ दक्षिणाप्लवणे देशे दक्षिणाभिमुखस्य च । दक्षिणायेषु दर्भेषु एषोऽन्यत्र विधिः स्मृतः ॥ ४॥ परिशिष्टप्रकाशः । पिण्डेष्वमन्त्रक गन्धपुष्पादोनर्पयित्वा ब्राह्मणाचमनं कारयेत् । एष एव पिण्डदानविधिः अन्यत्रापि पार्वणादौ यवदेवतीर्थोपवीत- दक्षिणोपचारशून्यः स्यात् ॥ ३ ॥ न केवलं यवादिरहित: दक्षिणानवे, न वृहाविव प्राचीन नवे दक्षिणामुखस्य दातुन प्रामुखस्य | दक्षिणाग्रेषु दर्भेषु न प्रागद्वेषु । एष पिण्डदानविधिः पार्वणादौ मुनिभिः स्मृत इति ॥ ४ ॥ प्रभा । मास्तृतकशानां मूलमध्याग्रप्रदेशेषु अल्पलम्नान् पिण्डान् दद्यात् । हरिराशास्यमानं मङ्गलकमी ॥ २ ॥ गन्यादीनिति । पिण्डेष्वमन्त्रकं गन्धादीन् निःक्षिपेत् । ततः श्राद्धभोक्तृब्राह्मणानाचामयेत् । लेपघर्षणप्रचालनादिभिर्मुखहस्त- शोधनं कारयेत् । अन्यत्र पार्व्वणेऽपि यवादिरहित एष एव विधिः स्यात् । यवादीत्यादिपदात् देवतीर्थोपवीतित्वप्रामुखत्व- द्रचिषणानुपातदक्षिणोपचारपरिग्रहः ॥ ३ ॥ दक्षिणाझवने इति । दचिणनिको देशे दक्षिणाभिमुखस्य