पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्प्रदीपः । [ १प्र. ३ख. ] अवनेजनवत्पिण्डान् दत्वा विल्वप्रमाणकान् । तत्पात्रचालनेनाथ पुनरम्यवनेजयेत् ॥ १४ ॥ तृतीयः खण्डः । परिशिष्टप्रकाशः । संयोज्य प्रामुखो बिल्वमात्रान् षट् पिण्डान् कृत्वाऽवनेजनवद्दत्वा पिण्डपावप्रचालन जलेन पुनरवनेजयेत् । अत्र स्वोक्तप्राङ्मुख- त्वेनाश्वलायनोक्तम् आभ्युदयिके युग्मा ब्राह्मणाः समूला: दर्भाः प्रामुखेभ्यः उदमुखोदयादिति उदमुखत्वं बाध्यम् ॥ १३ ॥ १४ ॥ इति तृतीयः खण्डः । प्रभा । श्राद्धार्थादत्रादित्यर्थः । शेषमचं निवेदयेदित्यनेन तथैवावगतेः । सर्व्वत्वमाधिकारिक मिति सिद्धान्तात् । “सर्व्वस्मात् प्रकतादनात् पिण्डान् मधुतिलान्वितान्” । इति पाळणे दर्शनाच । प्रकृतादवादनमुहृत्य पात्रान्तरं कृत्वा व्यश्वनैरुपसिच्च मित्रयित्वा यवकर्कन्धूद्धिभिः संयोज्य प्राङ्मुखो- बिल्वपरिमितान् पिण्डान् अवनेजनवत् दत्त्वा पिण्डपात्रप्रचालन - जलेन पुनरवनेजयेत्। कर्कन्धूवंदरम् । प्रसिद्धमन्यत् । अवने- अनवदित्यनेन मूलमध्यायदेशेषु पिण्डदानमुक्तम् । अवनेजये- दिव्युक्तेरवाप्यवमेनिवे तिप्रयोगः ॥ १३ ॥ १४ ॥ इति तृतीयः खण्डः ।