पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्प्रदीपः । सम्पन्न मितितृप्ताः स्थप्रश्नस्थाने विधीयते । सुसम्पन्नमतिप्रोक्त शेषमन्नन्निवेदयेत् ॥ १० ॥ [ १प्र. ३ख. ] परिशिष्टप्रकाशः | पार्वणे तृप्ता:स्थेति यः प्रश्नः, तत्स्थाने सम्पन्नमिति वक्तव्यम् । प्रश्नानन्तरं सुसम्पन्नमिति ब्राह्मणैः प्रोक्त शेषमन्त्रमण्यस्तीति ब्राह्मणेभ्यो निवेदयेत् । तथाच तृप्तिप्रश्नः ॥ १० ॥ - सम्पनमिति कात्यायनः –२ प्रभा । सम्पन्नमितौति । पावणे दप्ता स्व इति योऽयं प्रश्नस्तस्य स्थाने अत्र सम्पन्नमिति प्रश्नो विधीयते क्रियते । कर्त्तव्य इति यावत् । ब्राह्मणैः सुसम्पन्नमित्युत्तरे कथिते शेषमन्त्रं तान् ज्ञापयेत् । कथं ज्ञापयेत् ? उच्चते । अन्नशेषैः किं क्रियतामिति प्रष्टव्यम् । तैय इष्टेः सहोपभुज्यतामिति वक्तव्यम् । तथाच च्छन्दोगापरस्त्रम् | “शेषमन्रमनुज्ञाप्यावशेषैः किं क्रियता- मिष्टेः सहोपभुज्यतामिति" इति । इति अनेन प्रकारणानु- ज्ञाप्येत्यर्थः । यत्तु शेषमनं क्व देयमिति पृच्छेत् । इष्टेभ्यो- दीयतामिति प्रतिवचनम् । “स तानाह पुनः शेषं क देयञ्चान्त्रमित्यपि । इष्टेभ्यो दौयतामेतदिति संप्रवदन्ति ते” ॥ इति ब्रह्मपुराणादिति तत्त्वञ्चद्भिरुतम् । तदयुक्तम् । ब्रह्मपुराण- वचनस्यादिवराहकृतश्रादप्रयोगविषयत्वात् । छन्दोगानां स्व-