पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम प्रदीपः । [ १प्र. १ख. ] अथाऽतो गोभिलोक्तानामन्येषाञ्चैव कर्मणाम् । अस्पष्टानां विधिं सम्यग्दर्शयिष्ये प्रदीपवत् ॥ १ ॥ • परिशिष्टप्रकाशः । अथ वेदाध्ययनान्तरं गृहस्थाश्रम प्रवेशोन्मुखस्य माणवकस्य गोभिलोक्तानामाधानादिग्टह्यकर्मणामन्येषाञ्च मन्वायुक्तकणा- मस्पष्टानाम् । "आसीन जई: प्रहो वा नियमो यत्र नेहशः” । इत्यादीनां सम्यगनुष्ठानं दर्शयिष्ये । प्रदीपवत् । यथा प्रदीपो- उस्पष्टानि द्रव्याणि स्पष्टीकरोति तथाऽहमपि अस्पष्टस्पष्टीकरणात् प्रदीपतुल्य इति ग्रन्थकारस्य प्रदीपतुल्यता, ग्रन्थस्य वा । अतः- शब्दो हेत्वर्थे । यस्मादस्पष्टानि गोभिलायुक्तक माणि, तस्माद्- व्यक्तीकरोमि । अन्यथा विगुणग्गृहस्थकमानुष्ठानात्# माणवक: प्रत्यवायी भवेत् । अथशब्दय मङ्गलार्थोऽपि । तथाचोक्तम् । “ॐकारचायशब्दय दावेतो ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातो तेन माङ्गलिकावुभौ ” ॥ इति ॥ १ ॥ प्रभा । रह खलु तवभवान् कात्यायन: इन्दोगकर्त्तव्यानां गृह्यकर्मणां अन्येषाञ्चास्पष्टानां स्पष्टीकरणायें छन्दोगपरिशिष्टापरनामधेयं कम्प्रदीपाख्यमिमं ग्रन्थं रचयाञ्चकार । तस्येयमल्पग्रन्या वृत्ति-

  • मनुष्णवात् इति पुस्तके पाठः ।