पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

L -" [ १प्र. १ख. ] कम्मप्रदीपः । रारभ्यते । व्याचिख्यासितस्य कम्प्रदीपस्यायमादिमः नोक: प्रथात इत्यादि । तत्राथशब्द आर्षेयग्रन्थस्यादौ प्रयुज्यते । श्रुत्या च मङ्गलप्रयो- जनोभवति । भानन्तर्य्यार्थो वा वेदाध्ययनान्तरमिति तवार्थः । अतःशब्दो हेत्वधः । यस्मात् गोभिलोक्तानि कानिचित् ग्टह्य- कर्मास्यस्पष्टानि न च सर्वाणि छन्दोगकर्त्तव्याणि कर्माणि गोभिलेनोक्तानि, अत एतस्मात् कारणात् । वेदाध्ययना- नन्तरं गृहस्थाश्रमं प्रविविक्षुणा छन्दोगब्रह्मचारिणा गृहकर्मादि- परिज्ञानायें गृह्यादिकमध्येतव्यम् । तत्र चास्पष्टानामन्येषाञ्च इन्दोगकर्त्तव्यानां कम्मणां विधौ सम्यगप्रदर्शित कर्मणां सम्यक् परिज्ञानाभावेन कर्मणां वैगुण्यं कर्त्तुंबापराधः स्यात् । तस्मात् गोभिलोक्तानामन्येषाञ्च गोभिलीयकर्त्तव्यानामस्मष्टानां विधिं प्रदीपवत् सम्यग् दर्शयिष्ये । यथा मन्दान्धकार अस्पष्टानि वस्तूनि प्रदीपः सम्यग् दर्शयति, सइ दित्यर्थ: अत्र च गोभिलोतानां कमणां इन्दोगकर्त्तव्यत्वस्याविवादात् अन्यान्यपि कम्माणि छन्दोगकर्त्तव्यान्येवेति विज्ञायते । " प्रसिद्धार्थस्य साविध्ये योऽप्रसिद्धार्थ उच्चते । संविधानसामय्यात्तव्जातीयोऽवगम्यते” ॥ स इति न्यायात् । अपिचाडुः । “संयोगो विप्रयोगश्च साहचर्यं विरोधिता। अर्थः प्रकरणं लिङ्ग शब्दस्यान्यस्य सविधिः ॥ -