पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 कमप्रदोषः । परिशिष्टप्रकाश: । स्वशाखोक्तादधिक मनुष्ठेयमेव । यथा देवताभ्य इति मन्त्रजपादि । यत्तु गृह्यपरिशिष्टोक्तम् । “बह्वल्लं वा स्वगृह्योक्तं यख कम प्रकीर्त्तितम् । तस्य तावति शास्त्रार्ये कृते सर्व्वः कतोभवेत् " # तत्साधारणानां परोक्तानाच नावश्यमनुष्ठानमित्येवंपरम् । न तु 'स्वग्टह्योक्तमात्र मेवानुष्ठेयमिति तस्यार्थः । गृह्मानुक्तानां साधार खाना उपदेशानर्थ क्यापत्तेः । शाखान्तराधिकरणविरोधाञ्च ॥ ३ ॥ [ १प्र. ३ख. ] प्रभा । तत्र मक्रियेत्युक्तम् । द्वितीयश्लोकेन स्वशास्त्रोक्तं प्रयोगमुपेक्ष्य पर शास्त्रोक्त प्रयोगस्यानुष्ठानं निषिद्धम् | तृतीयेन तु यत् स्वशाखाय नोच्यते, अविरुद्धं तत् परोक्तमप्यनुष्ठेयमित्युपदिष्टम् । स्वशाखाश्रयमित्यनेन स्खभास्त्रोक्त प्रयोगपरित्यागेन परशास्त्रोक प्रयोगानुष्ठानस्य निन्दितत्वात् परोक्ता चेत्यनेन खशास्त्रोकप्रयोगा नुष्ठानकाले परोक्तस्यानुष्ठानमक्रियेत्युच्यते । एवञ्च स्वशास्त्रोक्तस्य प्रयोगस्थान्तराऽन्तरा परोक्षानुष्ठानं न कर्त्तव्यमिति तस्यार्थी | अन्यथाऽनर्यकत्वापत्तेः। तच्चेदं स्वशास्त्रोक्त प्रयोगस्यान्तराऽन्तरा परशास्त्रोक्तस्याङ्गुष्ठानं श्रौतेषु न शक्यते निषेचुम् । होत्रादि- तत्तच्छाखास तेषां तेषामेकैकेषामेव कर्मोपदेशात् । होत्रुहाल- ध्वयुप्रभृतिभिव विभित्रशाखिभिः ऋत्विग्भिर्यज्ञनिष्पत्तेः । तथाच होता वषट् करोति अध्वर्युर्जुहोति उहाता चोहायतीत्यादिकं तत्र तत्र विहितम् । तस्मात् परिशेष्यात् स्वग्टह्योक्त प्रयोगस्या- 1534