पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ कम्प्रदीपः । [ १प्र. ३ख. ] प्रभा । न्तराऽन्तरा परोक्त स्यानुष्ठानमक्रियोक्तमिति वक्तव्यम् । तथाच श्राइभाष्ये नीलाम्बरष्टतं गृह्मपरिशिष्टम्- “प्रयोगशास्त्रं गृह्यादि न समुच्चीयते परैः । प्रयोगशास्त्रताहानेरनारम्भ विधानतः ॥ बहुल्यं वा स्वग्टह्योक्तं यस्य कन्म प्रकीर्त्तितम् । तस्य तावति शास्त्रायें कृते सर्व्वः कृतो भवेत् ॥ श्रौतेषु सर्व्वशाखोकं सर्व्वस्यैव यथोचितम् ।. स्मात साधारणं तेषु ग्राह्यं श्रौतेषु कसु" || इति । तथा गृह्यासंग्रह:- - "आमतन्त्रेषु यत्रोक्तं तत् कुयात् पारतन्त्रिकम् । विशेषाः खलु सामान्या ये चोक्ता वेदवादिभिः ॥ जनो वाऽतिरिक्तो वा यः स्वशास्त्रोक्तमाचरेत् । तेन सन्तनुयात् यज्ञं न कुर्य्यात् पारतन्त्रिकम् ॥ यः स्वशाखोक्तमुत्सृज्य परशाखोक्नमाचरेत् । अप्रमाणमषिं कृत्वा सोऽन्वे तमसि मज्जति” ॥ इति । तदिदं तवभवतो गोभिलपुत्रस्य वचनत्रयं कात्यायन- समानार्थम् । तत्र प्रथमवचनं यवानातमित्यनेन, द्वितीयवचनं परोक्ता चेत्यनेन, बतौयवचनं स्वशाखाश्रयमुत्सृज्येत्यनेन समाना- र्थम् । अपि चाडुः- “प्रयोग: स्वकारोक्तो न समुञ्चयमर्हति । समुचये यतस्तस्य न निष्पत्तिर्न च क्रमः" ॥