पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्डः । अक्रिया विविधा प्रोक्ता विह्निः कर्मकारिणाम् । अक्रिया च परोक्ता च तृतीया चाऽयथा क्रिया ॥ १ ॥ खशाखाश्रयमुत्सृत्य परशाखाश्रयन्तु यः । कर्तुमिछति दुर्मेधा मोघं तत्तस्य चेष्टितम् ॥ २ ॥ परिशिष्ट प्रकाशः | अकरणं परशाखोक्तकरणं विहितेतरप्रकारेण क्रमान्तरादिना करणं, विविधैव कर्मणामक्रिया, निष्फलत्वात् ॥ १ ॥ परोक्तेत्यत्र विशेषमाह - स्वशाखोक्त श्रादादिकमुत्सृज्य पारशाखिकं खशाखोतविपरीतं यः कर्तुमिच्छति शास्त्रीय ज्ञानविपरीतज्ञानवान् । तस्य यत्कृतं तंत्रिष्फलम् ॥ २ ॥ प्रभा । कुशासनार्धदानादौ श्रहेतिकर्त्तव्यतायां प्राय: सर्केरेवा- चार्थैरन्योऽन्य प्रकार: उपदिष्टः । स च तदीयैरव कर्त्तव्यो- नवन्यैः । अन्यस्य त्वन्योक्तकरणमक्रियेवेत्याह अक्रियेति । कर्म- करणगौलानां कमण्यधिकुर्व्वापानां त्रिविधा अक्रिया मुनिभिः कथिता, अकरणं परोक्तकरणमयथा करणञ्चेति । अयथाकरणञ्च पौर्व्वापर्थ्यविपयासेनानुष्ठानम् ॥ १ ॥ स्वशाखाश्रयमिति | यस्तावत् स्वशाखोक्तस्य प्रयोगस्यान्तरा- ु