पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्मप्रदीपः । परिशिष्टप्रकाशः | कर उपरि येषां ते तथा, कराग्रे पवित्राग्रं येषां ते कराग्राऽग्र पवित्रकाः । तांस्तथाविधान् कृत्वा अर्धापात्रस्थजलपुष्पादि तहस्ते दातव्यम् । न तु यथा पार्श्वणे एकस्व पितृव्राह्मणस्य हस्ते तथा पितामहस्त्र, तथाऽपरस्य प्रपितामहस्य दीयते तथाऽति ॥ ८ ॥ [ १प्र. २ख. ] ४३ प्रभा । श्रेष्ठस्य उत्तरः उपरि स्थितः करो येषां, ज्येष्ठस्य करोपरि करो- येषामिति वा । येषां करोपरि ज्येष्ठस्थ कर इत्युभयत्रापि तुल्योऽर्थः । अन्येषां ब्राह्मणां करस्योपरि ज्येष्ठस्य करः स्थापयितव्य इति तात्पर्थम् | कराग्राग्रपवित्रकान्, कराग्रे अग्रपवित्रं पवित्राग्रं येषां तथाविधान् कृत्वाऽध्ये दातव्यम् । अवाभ्युदयिके एकैकस्य ब्राह्मणस्य हस्ते न दीयते । पार्वणे हि "एकेकस्यैकेकेन ददाति" इति श्राहकल्पे पित्रादिप्रत्येक ब्राह्मणहस्तेऽर्घदानमुक्तम् । अव तथा न कर्त्तव्यम् । किन्तु पितृ- पितामह प्रपितामह ब्राह्मणानां करान् मिलितान् कृत्वा तदुपरि अयंदानं कर्त्तव्यमित्ययमत्र विशेषः । ज्येष्ठोत्तरकरान् युग्मा नित्युपक्रमात् नेकेकस्यात्र दीयते इत्युपसंहाराच्च तथा प्रतीतेः । अन्यथा ज्येष्ठोत्तरकरान् युग्मानित्यनेन बहनां युग्मानां ज्येष्ठोत्तर- करत्वलाभात् नैकैकस्यात्र दोयते इत्यनर्थकं स्यात् । तस्मादय- मेवात विशेषः । कराग्राग्रपवित्रकत्वन्तु न विशेष इति पार्वषे उप्य तद विशिष्टम् । यद्यपि पार्वणे कराग्राग्रपवित्रकत्वं न विहितं, तथा प्येतेन लिङ्गेन तत्र तदिधिरनुमातव्यः । यथाहुः –