पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

E कम प्रदीपः । परिशिष्टप्रकाशः | कुशेषु, तान् ब्राह्मणानुपवेश्य गोत्रनामभिः सम्बोध्य पितॄनर्धत्र- मरपावस्थजलादि दापयेत् दयादित्यर्थः । तेन सम्बोधनान्तेन गोवनामनी उच्चा इत्युक्तं भवति ॥ ७ ॥ [ १म. २ख. ] प्रभा । कुशदानप्रकारमाह पितृभ्य इति । पार्श्व पितृभ्यः स्खधेत्यनेन अत्र तु नमः पदादिना दत्तेषु कुशेषु तान् ब्राह्मणानुपवेश्य गोत्र- नामभिः पितॄनामन्त्रा संबोध्य अध्यं प्रदापयेत् दद्यात् । खायें णिच् । पितॄणां बहुत्वात् गोत्रनामभिरिति बहुवचनम् । पित्रादि- संबन्धिपदोल्लेखसंग्रहार्थं वा । तदव पितृभ्य इति दत्तेषु इति सुस्पष्टमभिधानात् कुशदानमतिक्रम्यादाने गोवनामभिरामन्त्र- गोपदेशाच पितृभ्य इत्यनेनैव कुशा देया नाव गोत्रनामभिरा- मन्त्रणम् । तथा च व्यास - "चतुर्थी चासने नित्यं सल्पे च विधीयते J प्रथमा तर्पणे प्रोक्ता संबुद्धिमपरे जगु: " ॥ इति नित्यमासनदाने चतुर्थीमाह तदिदं वाक्यं छान्दोगा- नामप्यादरणीयम् । तेषां हि तर्पणे प्रथमाऽनुशियते सम्बुद्धिञ्चान्ये - षाम् । यत्तु नारायणोपाध्यायेन व्याख्यातम्, इति ऋजुनैव हि पाणिना इत्युक्त प्रकारेण पितृभ्यो दत्तेषु कुशेषु इति । तदसङ्ग- तम् । इतिशब्दस्यानर्थंकत्वापत्तेः । पितृभ्य इत्यस्य चानतिप्रयो जनतापत्ते: । पितृभ्यो हि बाई दीयते । त्यागवाक्यप्रकारोप-