पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कप्रदीपः । [ १म. २ख. ] निपातो न हि सव्यस्य जानुनो विद्यते क्वचित् । न सदा परिचरेडक्ता पितृनप्य देववत् ॥ ६ ॥ पितृभ्य इति दत्तेषु उपवेश्य कुशेषु तान् । गोचनामभिरामन्त्रा पितॄनर्घ्यं प्रदापयेत् ॥ ७ ॥ परिशिष्टप्रकाशः । अत्र वामजानुपातनं कचिदपि नास्ति । किं तर्हि, पितॄंच देववत् परिचरेत्, सदा यावायोगमित्यर्थः ॥ ६ ॥ पू[मासने कुशदानमुत्र, तत्पितॄनुद्दिश्य दातव्यं न ब्राह्मणा- नित्याह- इति – ऋजुनैव हि पाणिनेत्युक्त प्रकारेण पितृभ्यो दत्तेषु प्रभा । सदाशब्देन पितृकर्मान्त:पातिनि दैवकण्यपि दक्षिणजानु. पातमुपदिशति ॥ ५ ॥ प्रासङ्गिकमभिधाय प्रकृतमाह निपात इति । अत्रेति परा चीनं पूर्व्ववाप्यनुषव्यते । पवाभ्युदयिकश्राद्धे क्वचिदपि पितृ- कश्मण्यपि सव्यजानुपातो न कर्त्तव्य: । किन्तु अत्र पितृनपि भक्त्या देववत् परिचरत् पितृकर्मापि दक्षिणजानुपातेनाल कर्त्तव्यमित्यर्थः । सदेति प्रयोगपरिसमाप्तिपर्यन्तमेवं कर्त्तव्य- मित्युपदिशति ॥ ६ ॥ ब्राह्मणानुपवेश्य ऋजुनैव पाणिना कुशान् दद्या दिव्युक्तम् ।