पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १प्र. २ख. ] कमप्रदोषः । दक्षिणं पातयेज्जानु देवान् परिचरन् सदा । पातयेदितरज्जानु पितॄन् परिचरन्नपि ॥ ५ ॥ परिशिष्टप्रकाश: । विशेषान्तरमाह- पावसिष्ठ के देवार्थयाडे देवान् परिचरन् दक्षिणजानुपातनं कुर्यात् । पितॄन् पुनम्तदर्थवादकरणे परिचरन् वामं जानु पातये- दिति ॥ ५ ॥ - प्रभा । "चितौ दर्भाः पथि दर्भा ये दर्भा यज्ञभूमिषु । स्तरणासनपिण्डेषु षड्दर्भान् परिवर्ज्जयेत्” ॥ इति । तथा तस्यैव- - “पिण्डायें ये स्तृता दर्भा यैः क्वतं पितृतर्पणम् । मूत्रोच्छिष्टैधृता ये च त्यागस्तेषां विधीयते ॥ नीवीमध्ये च ये दर्भा ब्रह्मसूत्रे च ये धृताः । पवित्रांस्तान् विजानीयात् यथा कायस्तथा कुशा : " ॥ इति । यैः कृतं पितृतर्पमित्यभिधानात् यैर्देवतादितर्पणं कृतं तैः पितृतर्पण करणे त्वदोषः । नौवीमध्ये चेति वचनं मूत्रो- च्छिष्टैर्वृता ये चेत्यस्यापवादकम् । मूत्रोच्छिष्टर्घृता ये चेत्यत्र मूत्रोच्छिष्टप्रलेपे चेति क्वचित् पाठः ॥ ४ ॥ दक्षिणमिति । पाळणे देवं कर्मम कुर्व्वन् दक्षिणं जानु पातयेत् भूमौ स्थापयेत् । पित्रा कम कुर्वन् सव्यं जानु पातयेत् ।