पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कप्रदीपः | परिशिष्टप्रकामः | "चितौ पथि च ये दर्भ ये दर्भायज्ञभूमिषु । स्तरणासनपिण्डेषु षट्कुशान् परिवर्जयेत् ॥ नौवीमध्ये तु ये दर्भा यज्ञसूत्रे च ये कृताः । पवित्रांस्सान्विजानीयाद्यथा कायस्तथा कुशा: "# एतच ते कृते चेत्यस्थापवादकं- [ १प्र. २ख. ] - . "पिण्डायें ये स्तृतादर्भा यैः कृतं पितृतर्पणम् । सूत्रोच्छिष्टे धृता ये च तेषां त्यागो विधीयते” ॥ इत्येतदनन्तरं लघुहारीतेन नौवीमध्ये इत्युक्तत्वात् । त्याज्यव्यति- प्रभा ।. त्यागो विधीयते । नैव ते कम्मै विनियोज्या इत्यर्थः । पिण्डायें स्तुतानां दर्भाणां पितृतर्पणार्थं गृहीतानाच त्याज्यत्वे तेषु पिण्डदानं तैः पितृतर्पणञ्च न स्यात् । नैष दोषः । तथाले स्तृतानां पिण्डार्थत्वस्य, गृहीतानां तर्पणार्थत्वस्य चानुपपत्तेः । तस्मात् येषु दर्भेषु पिण्डदानं यैष पितृतर्पणं कृतं तेषां कर्मा न्तरेषु त्याज्यत्वमुच्यते, न तत्तत्कम खपि त्याज्यत्वमुच्यते । तथा सति दर्भेषु पिण्डदानस्य दमें: पितृतर्पणस्य चोपदेश: प्रमत्तगीतं स्यात् । एतस्मादवगम्यते, एकत्र विनियुक्तानामपि दर्भाणमन्यव विनियोगोऽस्तौति । • तथाच गृह्यपरिशिष्टम् - "दर्भा: कृष्णाजिनं मन्त्रा ब्राह्मणा हविरमयः । अयातयामान्येतानि नियोज्यानि पुनः पुनः ” ॥