पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १प्र. २ख. ] कम प्रदीपः । हरिता वै सपिञ्जुलाः शुष्काः स्निग्धाः समाहिताः । रबिमावाः प्रमाणेन पितृतीर्येण संस्कृताः ॥ ३ ॥ परिशिष्टप्रकाशः । पित्रर्थानां वर्षपरिमाणदीन्याह- सपिलाः प्रादेशमात्रार्द्रकान्यतरशौर्णपुष्पमञ्जरीसहिताः, स्थूलपवाः, कोमलाः, समाहिताः नेतस्तती विक्षिप्तपर्णाः, कृत- मुष्टिहस्तप्रमाणाः, पितृतीर्घसंयोगसंस्कृताः, पिटक न्युपादेया- इति शेषः । रत्निप्रमाणता च पिण्डास्तरणार्थानामेव । आसना- इयत्सर्गाद्यर्थानान्तु गोकर्णप्रमाणता तथाच वायुपुराणम्- “रत्निप्रमाणाः शस्ता वे पितृतीर्थेन संस्कृताः । उपमूले तथा लूनाः प्रस्तरार्थे कुशा मताः ” ॥ ब्रह्मपुराणे- "हरिताच सपिचूला : स्निग्धाः पुष्टाः समाहिता; । गोकर्णदीर्घात कुमा: सकच्छिन्ना: समूलकाः ॥ पितृतीर्थेन या दूर्वा श्यामाकमेव च । काशा: कुशाववजाश्च तथाऽन्ये तीक्ष्णरोमशाः ॥ मौजाश्च शादलाचैव षड्दर्भाः परिकीर्त्तिता : " ॥ प्रभा । हरिता इति । हरिताः हरिद्वर्णाः सपिचूलाः मञ्जरीसहिताः साग्रा वा । पुष्टाः स्थूलपवाः । सिधा : कोमला प्रकर्कशा इति · कुशोत्तमाः इति ख पुस्तके पाठः ।