पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम प्रदीपः । [ १प्र. २ख. ] हरिता यज्ञिया दर्भाः पीतका: पाकयज्ञियाः । समूला: पिटदैवत्याः कल्माषा वैश्वदेविकाः ॥ २ ॥ परिशिष्टप्रकाशः । कुशान् दयादित्युक्तेर्यादृशाः कुशाः कन्माङ्गभूतास्तानाह दर्शादियज्ञार्या हरिताः, पञ्चयज्ञार्था: पीतवर्णाः, पिढदैवत- कर्मार्था: समूला:, विश्वदेवश्रादार्थास्तिलकोपेताः । कुशा- उत्पाव्या इति शेषः । काषायैव दैविका इति कल्पतरुपाठः । तदा च व्यक्त एवार्थः । अत्र च प्रसङ्गाद्यज्ञाद्यर्था अप्युक्ताः ॥ २ ॥ प्रभा । कुशान् दद्यादिति प्रसङ्गेन यस्मिन् कर्माणि यादृशाः कुशा- भवन्ति तदाह हरिता इति । हरिता दर्भा दर्शादियज्ञाः । पीतवर्णा दर्भा: पाकयज्ञार्हाः । पितृदेवत्या दर्भा: समूला मूल- सहिताः । पिटकमणि समूला इत्यर्थः । विश्वदेवार्था दर्भा कल्यापास्तिलकोपेताः कृष्णपाण्डरा इति यावत् । कल्माषाश्चैव दैविका इति समोधर: पठति । तदाब्यक्त एवार्थः । ननु क- इमे पाकया नाम ? तत्र व्याख्यातारो विवदन्ते । केचिदाहुः । पाकाङ्गकयज्ञा इति । पञ्चयज्ञा इत्येके । प्रशस्तयज्ञा इत्यन्ये । अव्ययजा इत्यपरे । देवयज्ञादय इति केचित् । वयं तु ब्रूमः । एकाग्नी ये यज्ञास्ते पाकयज्ञाः । कस्मात् ? “पाकयज्ञा- इत्याचचते एकाम्नी यज्ञान्" इति सूत्रकारवचनात् ॥ २ ॥