पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः खण्डः | reatme प्रातरामन्वितान् विप्रान् युग्मानुभयतस्तथा । उपवेश्य कुणान्दद्यादृजुनैव हि पाणिना ॥ १ ॥ परिशिष्टप्रकाशः । विशेषमाह प्रथमघटिकाये आमन्त्रितान् युग्मब्राह्मणान् । दैवें पित्रे च तथा पार्व्वणवत् प्रामुखान् देवे उदसुखान् पित्रे उपवेश्य ऋजुनैव हस्तेन कुशानासने दद्यात् ॥ १ ॥ प्रभा । प्रतिज्ञातं विशेषमाह प्रातरिति प्रातरामन्त्रितान् युग्मान् ब्राह्मणान् उभयत: देवपचे पितृपक्षे च तथा पाळणवदेव देवें प्राङ्मुखान् पिवेर चोदङ्मुखानुपवेश्य | ऋजुनैवावक्रेणैव हस्तेन कुशान् दद्यात् । पार्कणे याहे पूर्व्वदिने तदहव ब्राह्मण- निमन्त्रणमुक्तम् । अत्र तु पूर्व्व दिने निमन्त्रणं न भवति । किन्तु इदिने प्रातः । एवं पार्व्वणे पित्रेर अयुग्मा ब्राह्मणा उक्ताः, अव तु तत्रापि युग्मा: । पार्श्व पितृतीर्थेन दान मुक्तम् । अत्र तु ऋजुना हस्तेन देवतीर्थेनेत्यर्थः ॥ १ ॥